SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगोडीपार्श्वनाथाय नमः ॥ तृतीयोऽध्यायः ३ भा०-३ -अत्राह-उक्तं भवता नारका इति गतिं प्रतीत्य जीवस्यौदयिको भावः । तथा जन्मसु 'नारकदेवानामुपपातः' (अ० २, सू० ३५) । वक्ष्यति च स्थितौ 'नारकाणां द्वितीयादिषु' (अ० ४, सू० ४३), आस्रवेषु 'बहुवारम्भपरिग्रहत्वं च नारकस्यायुषः' (अ०६, सू०१६ ) इति । तत्र के नारका नाम क वेति । अत्रोच्यतेनरकेषु भवा नारकाः । तत्र नरकप्रसिद्ध्यर्थमिदमुच्यते टी० - अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः, स चाध्यायप्रकरणसूत्रकृतः, तत्राध्यायकृतस्तावद् द्वितीये जीवा लक्षणविधानाभ्यामभिहिताः, तत्र लक्षणमेकरूपत्वान्न पुनरभिधीयते, विधानं तु बहुरूपत्वात् पुनः पुनरभिधापयति, अतोऽत्रापि तृतीयेऽध्याये प्रतिविशिष्टस्थान निरूपणाद्वारेण जीवैविधानमेव विवक्षितमिति । प्रकरणसूत्रकृतौ तु सम्बन्धौ भाष्यकारेणोपात्तौस्वयमेव, तयोः प्राकाश्यमापाद्यते । अत्र - अध्यायपरिसमाप्तिप्रस्तावे शिष्य आह-अभिहितं भवता द्वितीयेऽध्याये भावप्रकरणे नारका इति गतिं प्रतीत्य जीवस्यौदयिको भाव इति । गतिकषायलिङ्गसूत्रं ( अ० २, सू० ६ ) अनेन भाष्येण सूचयति । तथा तस्मिन्नेव द्वितीये जन्मप्रकरणप्रस्तावे नार कदे - वानामुपपातः (अ० २, सू० ३५) इत्युक्तम्, तथा चतुर्थेऽध्याये स्थितत्रायुषः प्रस्तुतायां वक्ष्यति भवान् - नारकाणां च द्वितीयादिषु, दश वर्षसहस्राणि प्रथमायाम् (अ० ४, सू० ४३, ४४ ) इति, तथा षष्ठे sert कर्मावविचारणायां बहवारम्भपरिग्रहत्वं च नारकस्यायुषः (अ० ६, सू० १६) इति प्रतिपादयिष्यते । तत्रैवमनेकस्मिन् स्थाने नारकशब्दश्रवणादाहित संशयः पृच्छति —-केनारका नामेति जीवत्वसामान्यमवधृतं विशेषो निवासादिरनवधृत इत्यतः प्रश्नयति के पुनस्ते नारका इति । अत्रोच्यते नरकेषु भवा नारकाः, वक्ष्यन्ते उपरिष्टादुष्ट्रिका पिष्टपचनीलोहीक रकाद्याकृतयः सीमन्तादयो नरकाः विशिष्टाकृतयोऽपुण्यसंभारजनितगौरवाणां सच्चानामुत्पत्तिस्थानविशेषाः, ते च किलाशुभकर्मभाजो नरान् कायन्ति आह्वयन्तीति नरकाः, "रूढिषु हि क्रिय युत्पत्तिकर्मार्था नार्थक्रियार्था " इतिवचनात् न ते केचिदाह्वयन्ति नापि नरानिति, तिरश्चामपि तत्र गमनाद, अतो व्युत्पत्तिमात्रमेव केवलम् तेषु नरकेषूष्ट्रिकाद्याकृतिषु भवा नारकाः, मारकाधिकारस्था मानि 1 ६ नारकाधिकारप्रस्तावना १' तत्र के नाम' इति ग-टी-पाठः । २ 'चेति' इति घ-पाठः । ३ 'जीवविशिष्टमेव' इति ख- पाठः । ४ 'क्रियाधुत्पत्ति' इति ग-पाठः । ५ 'नर्थक्रिया' इति ग-टी-पाठः ६० 'किञ्चित्' इति क-ख-पाठः । इति ग-टी-पाठः । 'केषु' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy