________________
२२६
तच्चार्थाधिगमसूत्रम्
[ अध्यायः २
योगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्प फलाभाव इति, उपक्रमो - विषाग्निशस्त्रादिस्तेनाभिहतो मरणं - आयुः क्षयस्तत्र समुद्घातः, मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापकर्षो मृर्च्छानुगतचेतनाविमुक्त इवाव्यक्तप्रबोध लक्षणोऽस्तमितसकलबहिर्वर्तिचेष्टाक्रियाविशेषः स एव चातिचिररूढमूलप्रदेशोत्खननरूपत्वाद् दुःखं तेनार्तो- विषण्णः किंकर्तव्यताविमुखः कर्मप्रत्ययं - कर्मकारणं करणविशेषमुत्पाद्यापवर्तनाख्यम्, कर्मकारणता तु करणविशेषस्य पूर्वभवबन्धकाल एव प्रयत्नशैथिल्यात् सोपक्रमबन्धः अत्यन्तापरिज्ञानमनाभोगः अनाभोगकृतो योगः योगः- चेष्टाविशेषः अनाभोगयोगस्तत्पूर्वकंतत्कारणम् । एतदुक्तं भवति - अजानान एव हि तदपवर्तनाकरणेनापवर्तनार्ह कर्मापवर्तयति आहाररसादिविपरिणामवत्, किमर्थं पुनरपवर्तयति १ फलोपभोगार्थमायुष्कर्मफलोपभोगायानाभोगनिर्वर्तितेन वीर्यविशेषेणेति, न चास्यायुष्कर्मणः फलाभावो भवति । इयांस्तु विशेषः — क्रमपरिभोगे बहुकालः, संवर्तितपरिभोगे स्वल्प इति न पुनरभुक्तं तत्र किश्चित् कर्म परिशटतीति । किञ्चान्यदित्यनेनापरमपि प्रकृतार्थोपयोगिनमादर्शयति दृष्टान्तम्
भा० - यथा वा धौतपटो जलार्द्र एव संहतश्विरेण शोषप्रकृतस्य समर्थनम् मुपयाति स एव च वितानितः सूर्यरश्मिवायुभिर्हतः क्षिप्रं शोषमुपयाति न च संहते तस्मिन्नभूतस्नेहागमो नापि वितानिते सति अकृत्स्नशोषः, तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति, न कृतप्रणाशाकृताभ्यागमाफल्यानीति ॥ ५२ ॥
•
टी० - यथा वा धौतपट इत्यादि । एवं चैष प्रकृतोऽर्थः प्रतिपत्तव्यः । यथा वा क्षालितपटो जललेशोपचितमूर्तिरेवावेष्टितश्चिरायोद्वायति, स एव प्रयत्न विशेषतो विस्तारितः सन् सहस्ररश्मिमयूखमालाभिः परिपीताशेपजललवः प्रबलपवनवेग विघटित निरवशेषप्रदेशः शीघ्रमपास्ताश्रितजल सङ्घातः समासादिताधिकतरधवलिमाऽपि परिशष्यति । न च संहते तस्मिन्नभूतस्नेहागम इति, न चाभूतजलस्नेहागमो भवति तस्मिन् संवेष्टितपटे, किन्तु संहतस्वात् तावन्त एव जलावयवाः कालेन बहुना परिशदन्ति, न पुनरभूतानामेव स्नेहावयवानामागमः, नापि वितानिते अकृत्स्नशोषः, न च प्रसारिते तस्मिन् पटे कृत्स्नजलावयव परिशोषो न भवति, विततेऽपि हि सर्व एव ते जलावयवाः परिग्ध्यन्ति तेषां हि जलावयवानां यावती मात्रा वेष्टितपटे तावत्येव प्रसारितेऽपि, परिशोषकालस्तु मिद्यते । परे व्याख्यानयन्ति न च संहते तस्मिन् न भूतः स्नेहापगमः, भूत एवं सञ्जात एवेत्यर्थः, किन्तु बहोः कालात्, बिता - निते तु द्रागेव च कृत्स्नवारिनिवहापगमः । तद्वदित्यनेन दार्शन्तिकमर्थस्य दर्शयतितुल्यतया यथोक्त निमित्तापवर्तनैः क्षिप्रं फलोपभोगो भवतीति । यथाऽभिहितं विषामिशस्त्रादि येषामपवर्तनानां तान्यवपर्तनानि यथोक्तानि निमित्तानि तैर्यथोक्तनिमित्ता
१० वाय्वभिहतः ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org