________________
२२५
सूत्रं ५२] - स्वोपज्ञभाष्य-टीकालङ्कृतम् नमित्युच्यते । संहतशुष्कतृणराशिदहनवत् । यथा हि संहतम्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्यार्थत्याशु दाहो भवति तत् ॥
टी०-न खल्वेते दोषाः प्रतिभान्ति जिनशासनावलम्बिनाम्, सिद्धान्तापरिज्ञानाच्चैवं चोद्यते, नायमार्हतः कृतान्तः फलमदत्त्वा कर्म प्रणश्यतीति, किन्तु यथाक्तैरुपक्रमैरध्यवसानविपशस्त्रादिभिरभिहतस्याभिप्लुतस्य सर्वसन्दोहेन-सर्वात्मना साकल्येनासादितोदयमायुष्कं कर्म प्राप्तविपाकमाशु भवति, यस्तु तस्य क्रमभावी विपाकः सोऽपवय॑ते, अनुभवः पुनः सर्वस्य युगपन्न निषिध्यते इत्येषोऽपवर्तनशब्दार्थः । बहिर्वर्तमानवस्तुविशेषप्रसिद्धयाऽन्तःप्रसिद्धिः साध्यत इत्याह-संहतेति । संहतत्वात् परिशेषवानपि तृणपुञ्जश्चिराय दह्यते, यदा तु विरलितो भवत्यवयवशस्तदाऽऽशु भस्मसाद् भवति, तद्वदायुषोऽप्यनुभवः, यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव परिणामापादितं भवति पवनश्लेषवत् तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद विकीर्णतणराशिदाहवदपवांशु वेद्यत इति । एवंविधार्थप्रक्रमे दृष्टान्तसुलभतामादर्शयन्नाह
__ भा०-यथा वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणअपवर्तनेऽप्यक्षयअवतनाप्यक्षय. कारभागहाराभ्यां राशिं छेदादेवापवर्तयति, न च सङ्ख्येय
स्यार्थस्याभावो भवति, तद्वदुपक्रमाभिहतो मरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति ॥ विश्चान्यत् । ___टी-यथा वा सङ्ख्यानाचार्य इत्यादि । सङ्ख्यान-गणितशास्त्रं तत्प्रधान आचार्यः सङ्ख्यानाचार्यो गणितप्रक्रियायामाहितनैपुणः, करणलाघवाय करणानि-गुणकारभागहारापवर्तनोद्वर्तनादीनि गणितशास्त्रप्रसिद्धानि, तत्र यो लघुः करणोपायः स्वल्पकालस्तेन तत्फलमानयति गणिताभिज्ञत्वात्, तुल्येऽपि हि फलानयने गुणकारभागहारौ चिराय तत्फलमभिनिवर्तयतः, स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिच्छेदादेवार्धादिकादपर्वतयति, पण्णवत्यादिकम्, अनपवर्तनाह पुनर्लघुकरणाभिज्ञोऽपि न शक्नोत्येवापवर्तयितुम्, एकपञ्चाशदुत्तरसहस्रादिकम् , गुणकारभागहारक्रममेवात्र प्रयोजयति, न च सख्येयस्यार्थस्याभावो भवति, फलभूतस्य करणविशेष सत्यपि प्रेप्सितफलाभेदमादर्शयति । करणव्यापारकालो बहुरल्पभेदः फलमविशिटमेवोभययोर्यथैतबदुपक्रमाभिहतो मरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोग१' प्रसिद्धयतः प्रसिद्धिः ' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org