________________
२२२ तत्वार्थाधिगमसूत्रम्
[ अध्यायः २ सह इति चेत्, एवं च मन्यन्ते चरमदेहग्रहाद् ग्रहीष्यन्ते, कथम्? ये किल चरमदेहास्ते नियमत एवोत्तमा भवन्ति, उत्तमास्तु चरमदेहत्वेन भाज्या वासुदेवादय इति, तस्मादनार्षमुत्तमपुरुषग्रहणमिति, उभयथा च भाष्यमुपलक्ष्यते अविगानात, आदावुत्तमपुरुषास्तीर्थकरा. दय इति विवृतमुत्तरकालं पुनर्नोपात्तमुत्तमपुरुषग्रहणं निरुपक्रमसोपक्रमनिरूपणायाम् , अतो भाष्यादेव सन्देहः, किमस्ति नास्तीति संशयात्तमेवेदमसाकम् । असङ्ख्येयवर्षाणि गणितविष. यातीतान्याऍपि येषां तेऽसङ्ख्येयवर्षायुषोऽकर्मभूम्यन्तरद्वीपका मनुष्याः, भरतैरावतविदेहेषु च तत्तुल्यकालाः पश्चेन्द्रियतिर्यग्योनयश्च तदन्यक्षेत्रद्वीपसमुद्रेषु, एवमेतेऽनपवायुषो द्रष्टव्याः। एतदेव स्पष्टयति भाष्यकारः-औपपातिका नारका देवाश्चेत्युक्तमिति सारयति प्रागभिहितं (अ०२,सू०३५), नाधुना व्याख्येयमिति। चरमशरीरास्तु मनुष्या एव भवन्ति, नान्ये। नारकतियेग्देवव्युदासः सिद्धययोग्यत्वात् । चरमदेहान् प्रसिद्धतरपर्यायशब्देन कथयति-चरमदेहा अन्त्यदेहा इत्यर्थः । येतेनैव शरीरेण सकलकर्मजालमपहाय सिद्धिमशेषकर्मापगमलक्षणामाप्नुवन्ति इति । उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः तीर्थकरनामकर्मोदयवर्तिनस्तीर्थकराः, चक्रवर्तिनोऽपि नवनिधिपतयश्चतुर्दशानां रत्नानां नेतारः खपौरुषोपात्तमहाभोगसुजः सकलभरताधिपा भवन्ति, अर्धचक्रवर्तिनस्तु बेलदेववासुदेवाः एवमादयधान्येऽपि किल प्रदर्शनाद् गणधरादयो गृह्यन्ते । असङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजा भवन्तीत्यादि भाष्यम् । एतेष्वेवासङ्ख्येयवर्षजीवित्वं लभ्यते, न नारकदेवेषु सम्भवन्त्यपि, तत्रासङ्ख्येयानि वर्षाण्यौपपातिकग्रहणानिवार्यन्त इति, मनुष्याणां तिरथां च मध्ये सम्भवन्त्यसङ्ख्येयवर्षायुपस्तेऽनपवायुषः । ते च
भा०-सदेवकुरूत्तरकुरुषु सान्तरद्वीपकास्वकर्मभूमिषु कर्मभूमिषु च सुषमसुषमायां सुषमायां सुषमदुप्षमायामित्यसङ्ख्येयवर्षायुषो मनुष्या भवन्ति । अत्रैव बाह्येषु दीपेषु समुद्रेयु तिर्यग्योनिजा असङ्ख्येयवर्षायुषो भवन्ति । औपपातिकाश्वासङ्ख्येयवर्षायुषश्च निरुपक्रमाः । चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति । एभ्य औपपातिकचरमदेहासङ्ख्येयवर्षायुर्व्यः शेषा मनुष्यास्तियंग्योनिजाः सोपक्रमा
. निरुपक्रमाश्चापवायुषोऽनपवायुषश्च भवन्ति । तत्र येऽपवअपवर्तनीयाः म ायुपस्तेषां विषशस्त्रकण्टकाम्युदकाशिताजीर्णाशनिप्रपा
ताइन्धनश्वापदवज्रनिर्वातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्व बन्द्रोपक्रमैरायुरपवर्त्यते। अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, उपक्रमोऽपवर्तननिमित्तम् ॥
१'बलदेवप्रतिवासुदेवाः' इति क-ख-पाठः । २ अयं तु ध-पाठः, 'पातिकं चरम• ' इति तु ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org