________________
२२३
सूत्र ५२]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-मन्दरनीलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्य उत्तराः कुरवः एकादशयोजनसहस्रद्विचत्वारिंशाष्टशतसद्विकलविस्तृताः । मन्दरनिषधयोर्दक्षिणोत्तराः सौमनसविद्युत्प्रभयोर्मध्ये देवकुरवस्तावत्प्रमागाः, सह देवकुरुभिरुत्तरकुरवः सदेवकुरूत्तरकुरवस्तत्र देवकु. रूत्तरकुरुपु जम्बूद्वीपधातकीखण्डपुष्करद्वीपावृत्तिषु, तथा हिमवतः प्राक् पश्चाद् विदिक्षु ध्यादिषु नवान्तेषु योजनशतेषूदधाववगाह्य तावद्विस्तरायामाः सप्तान्तरद्वीपाश्चतुश्चतुःप्रागुत्तरक्रमादेकोरुकादयस्तानन्तरद्वीपान् कायन्तीत्यन्तरद्वीपका मनुष्याः सहान्तरद्वीपकैः सान्नरद्वीपकाः, कर्मणो भूमयः यत्र जाताः प्राणिनः सकलं कर्म क्षपयित्वा सिद्धयन्ति तीर्थकरायपदेशात ताः कर्मभूमयो भरतैरावतविदेहक्षेत्राणि पञ्चदश प्रत्येकं पञ्चभेदत्वात् । न कर्मभूमयोऽकर्मभूमयः तासु अकर्मभूमिपु-हैमवतहरिवर्षरम्यकहैरण्यवताख्यासु जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धवर्तिनीषु तथोक्तलक्षणासु कर्मभूमिषु च ये मनुष्याः प्रथमद्वितीयतृतीयसमासु यदा भवन्त्यसङ्ख्येयवर्षायुषस्तदा तेऽनपवायुषो मन्तव्याः दृढबद्धत्वादग्न्यादिभिः कोहदुकापरानानुक्रमवत् । अत्रैव बाह्येष्वित्यादि । सदेवकुरूत्तरकुरुष्वित्यादि समस्तमुपलक्षयत्यत्रैवेति। तथा बाह्येषु मनुष्यक्षेत्राद् बाहिर्ये वर्तन्ते द्वीपाः समुद्राश्च तेषु तियंग्योनिजा असङ्ख्येयवर्धायुषो भवन्ति,मनुष्यक्षेत्रे च बहिश्चेत्यसङ्ख्येयवर्षायुषां तिरश्चां सम्भवः । तत्र प्रागुक्तमनपवर्तनीयानि द्विविधानि भवन्तीति तद् दर्शयत्यधुना भाष्येण-औपपातिकाश्चासङ्ख्येयवर्षायुषश्च निरुपक्रमाः। न ह्येषां प्राणापानाहारनिरोधाध्यवसाननिमित्तवेदनापराघातस्पर्शाख्याः सप्त वेदनाविशेषाः सन्त्यायुषो भेदकाः उपक्रमा इति, अतो निरुपक्रमा एव । चरमदेहाः पुनः सोपक्रमा निरुपक्रमाश्चेति । अत्रोत्तमपुरुषा नोक्ताः, एतानि प्राणापाननिरोधादीनि किल चरमदेहेषु सम्भवन्त्येव नोच्छिन्दन्तीति सोपत्रमा भण्यन्ते, केचित् तत्र निरुपमा येष्वेतानि न सम्भवन्तीत्यपीति । इदानीं सामर्थ्यलब्धमर्थ दर्शयति-एभ्य इत्यादि। उक्तलक्षणेभ्यः औपपातिकादिभ्यो व्यतिरिच्यमानाः शेषाः। ते च नियमतो मनुष्याः तिर्यश्चो वा आयुरुभयथा भजन्ते, प्राणापाननिरोधादिकारणकलापोपक्रम्यत्वात् सोपक्रमायुषः केचित, केचित् तु न तैरुपक्रम्यन्त इति निरुपक्रमायुषः । यदुक्तं-'प्रागपवर्तनीयानि तु नियतं सोपक्रमाणी'ति तद्विशेषदिदर्शयिषया आह-अपवायुषोऽनपवायुषश्च शेषाः । तत्र येऽपवायुषस्ते नियतं सोपक्रमाः। ये पुनरनपवायुषस्ते शेषाश्चेति-निरुपक्रमायुष एव । एतदेव भाष्यकारः स्पष्टयन विभजते-तत्र येऽपवायुषस्तेषामित्यादिना । तेषु मनुष्येषु तिर्यक्षु च येषामपवर्तनीयमायुस्तेषामपवयते। अमी विषादयो हेतवः सुज्ञानत्वाच्च न विवृताः। आदिशब्दाच्च पूर्वोक्ताः प्राणापाननिरोधादयः कांश्चिदपहाय ग्राह्याः । एमिर्हेतुभिरायुरपवर्तते स्वल्पीभवतीतियावत्, द्वन्द्व उपघात आयुषस्तस्योपक्रमैः, तत्प्रत्यासन्नीकरणैरित्यर्थः । कि
१ 'कंकटुकापरान्तानुपक्रमवत्' इति ग-टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org