________________
सूत्र ५२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२२१
कदाचिदप्युपक्रान्तेरदर्शनात् । अपरे वर्णयन्ति - तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, शेषाणां चरमदेहो त म पुरुषा सङ्ख्ये यवर्षायुषामुभयथा, एवंविधाभ्युपगमे भाष्यमुपरिष्टादगमितं स्यात्, औपपातिकाश्चासङ्ख्येयवर्षायुषश्च निरुपक्रमाः, चरमदेहाः सोपक्रमा निरुपक्रमाचेति भाष्यमिदमत्यन्तमसङ्गतं स्यात् । कर्मप्रकृतिग्रन्थानुसारिणस्तु वर्णयन्ति
“ अद्धा जोगुस्सा, वंधत्ता भोगभूमिए सुलहं । सवप्पजीवितं वज्जइत्तु उवट्टि (य) त्ता दोहम् ॥
"
पवर्तनम्
उत्कृष्टप्रदेशोदयविचारे सङ्ग्रहिण्यामियं गाथा, अर्थस्त्वस्याः—उत्कृयुगलिनोऽप्याशुषो ष्टबन्धाद्धायामायुषो योगेनोत्कृष्टेन तिर्यगायुर्मनुष्यायुर्वा बद्ध्वा मृतः सन् भोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थिति षूत्पन्नः पश्चादाशु सर्वाल्पजीवितमन्तर्मुहूर्त विहाय शेषमायुत्रिपल्योपमस्थितिकमपवर्तयन्त्यन्तर्मुहूर्तोनमिति । यदा च तदपवर्तितं भवति तदा किलोत्कृष्टः प्रदेशोदयो भवतीति, न च शक्यमनेनाभिप्रायेण भाष्यं गमयितुमति विरोधात् तस्मादवस्थितमिदमनपवर्तनीयानि द्विविधानि -सोपक्रमाणि निरुपकमाणि चेति, अपवर्तनीयानि तु नियतं सोपक्रमाणि । तुशब्दोऽवधारकः । सोपक्रमाण्येवापवर्तनीयान्याÂपि भवन्ति सर्वदा, यतो न ह्यपवर्तनाध्यवसानादिकं निमित्तमन्तरेणात्मलाभं प्रतिपद्यते । तत्र केऽनपवर्त्यायुषः के वाऽपवर्त्यायुप इत्यन्यतराख्यानेऽन्यतरपरिज्ञानं भवति लघुत्वाच्चानपवर्त्ययुपः सूत्रेण दर्शयति
,
सूत्रम् - औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येय वर्षायुषो - ऽनपवर्त्यायुषः ॥ २-५२ ॥
टी० - अनपवर्त्यायुषो निर्धार्यन्तेऽमुना योगेन, तच्चावधारणं तत्र शब्देनाख्याति
भाष्यकारः ।
अनपयुषः
भा०- - औपपातिकाश्चरमदेहा उत्तमपुरुषाः असङ्ख्येयवर्षास्वामिनः युष इत्यपवर्त्यायुषो भवन्ति । तत्र औपपातिका नारकदेवाश्चेत्युक्तम् (अ०२, सू० ३५ ) | चरमदेहा मनुष्या एव भवन्ति, नान्ये | चरमदेहा अन्त्यदेहा इत्यर्थः । ये तेनैव शरीरेण सिद्ध्यन्ति । उत्तमपुरुवास्तीर्थकर चक्रवर्त्य चक्रवर्तिनः । असङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाच भवन्ति ।
टी० - औपपातिका इत्यादि भाष्यम् । उपपातजन्मानो नारकदेवाः, चरम :- अन्त्यो देहो येषां ते चरमदेहाः पुनर्देहग्रहणं ये न करिष्यन्ति, उत्तमपुरुषास्तीर्थकरचक्रवर्तिबलदेववासुदेवाः । केचिदभिदधते - नास्ति सूत्रकारस्योत्तमपुरुषग्रहणमिति तत् कथं तीर्थकरादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org