________________
२१८ तत्वार्थाधिगममूत्रम्
[ अध्यायः २ शे याच गम्यते जराय्वण्डपोतजान्त्रिविधा भवन्ति-स्त्रियः पुमांसो नपुं. सकानीति ॥१॥ ___टी--प्रकृतस्य प्रतिषेधं दर्शयति, नपुंसकवेदः प्रकृतः, स एव प्रतिषिध्यते, दीव्यन्ति इति देवाः क्रीडाातिगतिप्यतिशयवतीपु वाच्याः, चत्वारो निकायाः-
सङ्घाता:समूहाः येषां भवनवनचरज्योतिपिकवैमानिकाख्यास्ते चतुर्निकायास्ते चतुर्विधा अपि न नपुंसकानि भवन्ति, नपुंसकवेदप्रतिषेधोत्तरकालं चाप्रतिषिद्धत्वात सामर्थ्यात् स्त्रीपुरुपवेदद्वययोगिता गम्यतेऽतस्तां दर्शयति-स्त्रियः पुमांसश्च भवन्ति । स्त्रीवेदभाजः पुरुषवेदवेदिनश्चेत्यर्थः। भवनपतिव्यन्तरज्योतिपिकसौधर्मेशानेषु वेदद्वयमप्युपपाततः, तदुपरि पुरुषवेद एव, नेतरः। किं पुनः कारणं देवानां नपुंसकवेदो नास्तीत्यत आह-लेषांहीत्यादि । यस्मात् तेपांशुभगत्यादिनामगोत्रवेद्यायुष्कापेक्षमोहोदयादभिलपितप्रीतिसाधकं मायाजेवोपचितं करीषतृणपूलाग्निसदृशं स्त्रीवेदनीयमेकं पुंवेदनीयसेवाधिकं पूर्ववद्धनिकाचितमुद्यप्राप्तं भवति नेतरनपुंसकवेदनीयमबद्धत्वात् । अत्र च स्त्रीवेदो नपुंसकवेदापेक्षया शुभ उच्यते, न पुनः शुभ एव । इदानीं सामर्थ्याल्लब्धं दर्शयति-पारिशेष्याच्च गम्यत इत्यादिना । परिशेपसिद्धया विज्ञायते जरावचण्डपोतजास्त्रिविधा भवन्ति-स्त्रियः पुमांसो नपुंसकानि चेति ॥ ५१ ॥
भा०-अत्राह-चर्तुगतावपि संसारे किं व्यवस्थिता स्थितिआयुषाऽपय रायुपः उताकालमृत्युरप्यस्तीति ? । अत्रोच्यते-द्विविधान्यार्तनादि
यूषि-अपवर्तनीयानि अनपवर्तनीयानि च। अनपवर्तनीयानि पुनर्दिविधानि-सोपक्रमाणि निरुपक्रमाणि च । अपवर्तनीयानि तु नियतं सोपक्रमाणीति ॥ तत्र
टी०-अबाहेत्यादिः सम्बन्धग्रन्थः । अत्र प्रस्तावे संशयानः प्रश्नयति-नारकतिर्यङ्मनुष्यामरभेदभाजि संसारेऽतीतानन्तरजन्मपरिगृहीतस्यायुपः किं व्यवस्थिता तावत्येव स्थितिः-अनुभवकालः पूर्वबद्धा हि यावती, अथापरिपूरितायामपि तस्यां स्थितायपहाय प्राणान् परलोकप्रयाणाभिमुखः प्राणी प्रवर्तते। अकाले मृत्युः अकालमृत्युःप्रागुपात्तजीवनकालावधेरोकाले स्खोपात्तमनुष्याद्यायुर्द्रव्याणामनुभवतः कृत्स्नपरिक्षयो मृत्युः स पुनः किमकालेऽपि पूर्वप्रतिबद्धायुःसंस्कारविच्छेदावधावपरिसमाप्तेऽपि भवति आहोस्विनियमत एव तावन्तं कालं प्राणिति प्राणीति,कुतः पुनरयं संशयः? सकललोकप्रवादात,एवं लौकिकाः प्रभाषन्ते-अयमकाले मृतो जन्तुव्योपादितो वा, अयं पुनः स्थविरः स्वकालपरिमाणमायुरनुभूय मृत्युगोचरमायात इत्यतः सन्देहः किमकालेऽपि मरणयोग इति ? तथैव सङ्ग्रामे समर्थतरुणवहुजनव्यापत्तिमनुप्रेक्ष्य युगपत् संशयप्रसवः, न तत्र प्रतिपत्तिराधातुं शक्याऽऽत्मनि अयुक्तिकत्वात्,सर्व एते समायुषः सममेकसंख्यानिवन्धनमेभिर्भवान्तरमासाद्यायुरुपचितमिति न शक्यमवगन्तुम् , अतः संशेते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org