________________
२१७
यन्त
सूत्रे ५०-५१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
सूत्रम्-नारकसम्मूछिनो नपुंसकानि ॥ २–५० ॥
टी–केनचित् पुनरधीयते-नपुंसकवेदवन्तो जीवाः नारकसम्मछिनो नपुंसकाः, नपुंसकं येषां विद्यते, अर्शआदिपाठादतं विधाय ॥ भा०-नारकाश्च सर्वे सम्मूच्छिनश्च नपुंसकान्येव भवन्ति, न स्त्रियो न
पुमांसः। तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु नपुंसकवेददः वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिका
चितमुद्यप्राप्तं भवति, नेतरे इति ॥५०॥ टी०-नारकाश्चेत्यादि भाष्यम् । नरकेषु भवा नारकाः सर्वे सप्तसु पृथिवीषु वर्तमानाः सम्मूछिनश्च सम्मूर्छनं सम्मूर्छः सम्मूर्छा वा सम्मूर्च्छनजन्मेत्यर्थः तद् येषां विद्यते ते सम्मूछिनः, सम्मूर्च्छनजन्मभाजश्च पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाश्च केचित् तिर्यङ्मनुष्याः, सर्वे एते नपुंसकान्येव नपुंसकवेदभाज एवेत्यवधारयति। सामर्थ्याल्लब्धमवधारणाफलं दर्शयति-न स्त्रियोन पुमांसःन स्त्रीवेदभाजो न पुरुषवेदवेदिनः, किं पुनः कारणं नपुंसकवेद एव तेष्वित्यत आह-तेषां हीत्यादि । यसात् तेषां नारकाणां सम्मूर्च्छनजन्मनां च चारिप्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु वेदेषु,चारित्रमोहनीयं च तन्नोकपायवेदनीयं चेति चारित्रमोहनीयनोकषायवेदनीयम्-नवधा हास्यादि तद् आश्रयः-स्थानं येषां ते तदाश्रयास्तेषु तदाश्रयेषु त्रिषु वेदेषु निर्धायते । नपुंसकवेदनीयमित्यादि । नपुंसकत्वानुभवो नपुंसकवेदनीयं तदेवैकमशुभगतिनामापेक्षम्, प्रदर्शनवाक्यमिदमशुभगतिनामापेक्षमिति. अशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षो मोहोदयः परो येनाशुभं महानगरदाहोपमं मेंथुनामिलापमनुभवन्ति नारकाकाङ्क्षारूपमिति, सम्मूर्च्छनजन्मानोऽपि हि तिर्यचो मनुष्याचाशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षमोहोदयाकाङ्क्षावन्तो नपुंसकत्वमनुभवन्ति, पूर्ववद्धनिकाचितमुदयप्राप्तं पूर्वस्मिन् जन्मन्यनन्तरे बद्धं नपुंसकत्वयोग्यास्रवैः परिगृहीत. मित्यर्थः । निकाचितं तदेव ग्रहणानन्तरमात्मसात्कृतं क्षीरोदकवदन्योन्यानुगतिलक्षणेन सम्बन्धेनात्मप्रदेशैः सहाविभागितयाऽध्यवसायविशेषाद् व्यवस्थापितम् , उदयप्राप्तमिति समासादितपरिपाकावस्थम् , तदेवंविधं नपुंसकवेदनीयमेव नारकसम्मूच्छिमानां जन्तूनां दुःखबहुलत्वाद् भवति, नेतरे स्त्रीपुंवेदनीये कदाचिदिति ॥ ५० ॥ उक्तं नारकसम्मूछिनां लिङ्गम्, अथ देवानां किं लिङ्गमित्यत आह--
सूत्रम्-न देवाः ॥२-५१ ॥
भा०-देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति, स्त्रियः देवानां वेदो
पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनीये पूर्वबद्धनिकाचिते उद्यप्राप्ते द्वे एव भवतो नेतरत् । पारि
२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org