________________
२१९
सूत्रं ५१]
स्वोपज्ञभाष्य-टीकालङ्कृतम् मनः किमकालमृत्युरप्यस्तीति, तत एव आयोधनादक्षतवपुषः परिणति(त)शतजर्जरसकलसन्धयः स्थविरास्तीवहेतिहस्तास्तीरयित्वा समरमपगच्छन्तोऽवलोक्यन्ते, अतोऽवगम्यते न खलु कश्चिदकाल एव विषमाण्यवगाहमानोऽपि शरशतापादितक्षतिरपि प्रकृष्टदुःखवेदनार्को मरणमभिलपन्नपि प्राणैर्वियुज्यते, एवमनेकस्मिन् संशयबीजप्रसवे सति प्रश्नप्रवृत्तौ प्रतिवचनमुच्यतेद्विविधान्यायूंषि-अपवर्तनीयान्यनपवर्तनीयानि चेति । अकाले मृत्योरस्ति सम्भव इत्येवंविधार्थप्रदर्शनपरायणमिदमास्तीर्यते भाष्यम् । द्विविधान्यायूंषि-जीवितानि भवन्ति,
.. प्रयोगविशेषाच्च द्वैविध्यं, न स्वभावात्, तत्रायुषो बन्धकास्तावत् सम्यग्आयुषो द्वविः मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्य यावदप्रमत्तसंयत इति षट्सु स्थानेषु ध्यम्
जन्तवः अजवन्योत्कृष्टाध्यवसायविशेषभाजः पृथुकषायाः सायध्रुवायुर्विकल्पयुजः, तत्र नारकदेवासङ्ख्येयवर्षायुषः प्राणिनः षण्मास्यामवशेषायां नियमादायुपो बन्धकाः। शेषास्त्वायुपस्त्रिभागेऽवशेषे पुरोवर्तिजन्मानुभवयोग्यमायुर्वघ्नन्ति, त्रिभागत्रिभागे वाऽवशेष इति । अथवा त्रिभागत्रिभागत्रिभागे वाऽवशेष इति । एतदुक्तं भवति–त्रिभागावशेषायुषो नवभागशेपायुपः सप्तविंशतिभागावशेषायुपो वा परभवायुर्बध्नन्ति, ततः परं न बनन्तीत्यर्थः । तत्रावनिजलज्वलनमारुततरुद्वित्रिचतुरिन्द्रियाणां निरुपक्रमायुषां च पञ्चेन्द्रियाणां नियमित एव त्रिभागावशेषे बन्धो भवत्यायुषः, सोपक्रमायुषां पुनः पञ्चेन्द्रियाणामनियमेन बन्धो यावत् सप्तविंशतिभागावशेषकल्पनेति, ते च प्राणिनस्तदैव तदायुर्वनन्तोऽध्यवसायविशेषात् केचिदपवर्तनाह कुर्वन्ति केचिदनपवर्तनीयमिति, मन्दपरिणामप्रयोगोपचितमपवत्य तीव्रपरिणामप्रयोगोपचितमनपवर्त्यम्, तत्रापवर्तना नाम प्राक्तनजन्मविरचितस्थिते. रल्पतापादनमध्यवसानादिविशेषात् , अनपवर्तनीयं पुनस्तावत्कालस्थित्येव न हासमायाति खकालावधेरारात् , तैलवर्तिक्षयतो निर्विघातप्रदीपोपशान्तिवत् धनसंहतत्वाद् वा पवनश्लेषवत्, तच्च किलाखिन्नवीर्यारब्धत्वात् असङ्ख्येयसमयोपार्जितमायुरनपवर्त्यम्, तथा गाढवन्धनत्वानिकाचितबन्धात्मनियमादनपवायुर्भवति । अथवैकनाडिकापरिगृहीतमायुः संहतिमत्त्वात् संहतपुरुषराशिवदभेद्यं वा एकनाडिकाविवरप्रक्षिप्तबीजनिष्पादितसस्यसंहतिवद् वा, विवराद् बहिः पतितबीजप्रसूतं हि सस्यमसंहतत्वात् प्रविरलतायां सत्यां सर्वस्यैव गवादेर्गम्यम्, एवं किलायमात्माऽऽयुर्वन्धनने कात्मलब्धिपरिणामस्वाभाव्याच्छरीरव्याप्यपि सन्नाडिकामार्गपरिणामो भवति, ततस्तामवस्थामासाद्य यानायुष्कपुद्गलान् बन्धाति ते नाडिकाप्रविष्टत्वात् संहतिमत्त्वे सति अभेद्या विषशस्त्राग्न्यादीनामिति,मन्दतीव्रपरिणामसन्निधानाच स तत् तथा जन्मा. न्तर एव रचयति इहत्यजन्मव्याधिवत् । अल्पाद्धातुवैषम्यनिदानापथ्यसेवनाद् यो व्याधिः समुपजातः स कालान्तरेणोपेक्ष्यमाणःसमासादितोदग्रवृद्धिः समूलघातं निहन्ति शरीरकं, न पुनराश्वेव, निपुगाभिषग्वरोपदिष्टतत्प्रत्यनीकक्रियाकलापानुष्ठानाच द्रार विच्छेदमापाद्यते,तथैव यन्म
१' समरमपयान्तः' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org