________________
२१४
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा? गोयमा ! एकजीवफुडा नो अणेगजीवफुहा । पुरिसेणं भंते! अंतरे हत्थेण वा पाएण वा असिणा वा पभू विच्छिदित्तए । नो इणमहे समहे, नो खलु तत्थ सत्थं कमति" (सू० ६३५)॥ एतानि च सूत्राणि वैक्रियाद्यर्थेषूपयुज्य नियोज्यानि, न स्वार्थ एव प्रत्ययविधिः । अनियमं दर्शयति-विक्रियायां भवमित्यादिना भाष्येण, एतच्च सुज्ञानमेवातः कदाचिद् वैक्रियं वैक्रयिकं चेति ॥
आहारकस्य भा०-आहारकमाहियत इत्याहार्यम् । आहारकमन्तमुहूर्तशब्दार्थविस्तारः स्थिति । नैवं शेषाणि । .
, टी-आहारमाह्रियत इत्यादि भाष्यम् । गृह्यते प्रतिविशिष्टप्रयोजनप्रसाधनाय कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् संशयव्यवच्छेदार्थावग्रहणार्धदर्शनादि च कार्यम्, आहियते आहार्यमित्यनेन शब्दद्वयेन विशिष्टकारकसाध्यमाहारकशब्दं दर्शयति कुल्ल्युटो बहुलवचनात् , तच्चाहारकमन्तर्मुहूर्तस्थिति, एतावता च कालेनाभिलषितप्रयोजनपरिसमाप्तिस्तस्याहतुरुपजायते, परिनिष्ठितप्रयोजनश्च पुनर्विमुञ्चति नोत्तरकालमपि तां लब्धिमुपजीवति अतोऽन्तर्मुहूर्तस्थितिः, आत्मलाभो यस्य तदन्तर्मुहूर्तस्थिति। नैवं शेषाणीति, व्यतिरेकमन्यतः प्रतिपादयति-शेषाण्यौदारिकादीनि तत्प्रसाध्यप्रयोजननिवर्तनाय नालं नापि नियमत एवःतावत्या स्थित्या योगः प्रमाणेन वेति ॥
. भा०-तेजसो विकारस्तैजसं तेजोमयं तेजास्वतत्त्वं शापा
नुग्रहप्रयोजनम् । नैवं शेषाणि ॥ टी०-तेजसो विकारस्तैजसमित्यादि । उष्णभावलक्षणं तेजः संसिद्धं सर्वप्राणिषु पाचकमन्धसः । तस्यैवंविधस्य तेजसो विकारस्तैजसमवस्थान्तरापत्तिरिति । एतदेव पर्यायान्तरेणाख्याति-तेजोमयं स एव विकारार्थस्तेजःस्वतत्त्वम्, तेजसः स्वतत्त्वं-स्वरूपं-आत्मा-स्वभावस्तत् तेजःस्वतत्त्वम् शापानुग्रहप्रयोजनमिति । लब्धिनिर्वृत्तिमपेक्ष्योच्यते शापानुग्रही प्रयोजनं यस्य निग्राह्यानुग्राह्यपक्षयोस्तत् तु शापानुग्रहप्रयोजनमिति । नैवं शेषाणीति । औदारिकादिभ्यो व्यतिरिच्यते एतत् खगुणैरिति प्रथयति
___ भा०-कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् ।
कार्मणविचारः नैवं शेषाणि ॥
टी-कर्मणो विकार इत्यादि। ज्ञानावरणादिकर्मणो विकृतिः कार्मणमेकलोली. भाव इति कर्माणि तान्येवात्मा यस्य स्वरूपं कर्ममयमिति विकारार्थ एव पर्यायतः । नैवं शेषाणि इत्यौदारिकादिलक्षणव्युदासः । एवमन्वर्थसंज्ञकानि प्रतिपाद्य औदारिकादीन्येकप्रयस्नप्रसाध्यं लक्षणभेदाच्छरीरनानात्वमप्यतिदिशतिस्पृष्टानि, पुरुषो भदन्त ! अन्तरा हस्तेन वा पादेन वा असिना वा प्रभुर्विच्छेत्तुम् ! नैषोऽर्थः समर्थः नैव तत्र शस्त्रं काम्यति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org