SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सूत्र ४९] स्वोपनभाष्य-टीकालङ्कृतम् २१३ एतेऽनर्थान्तरमभिदधति ध्वनयः । एतदधुना स्पष्टयनाह-विविध क्रियत इत्यादिना । विविधमनेकप्रकारं तद् वैक्रिय क्रियते, कथं पुनस्तदित्युच्यते-एकं भूत्वा अनेकं भवति विकर्तः समासादितवैक्रियलब्धेरिच्छानुविधानात् । एकं भवतीत्यादि भाष्यं सुज्ञानं यावत् प्रतिघाति भूत्वेत्यादि । प्रतिहननशीलं भूत्वा स्थूलत्वात् सूक्ष्मावस्थानमनुप्राप्तं सदप्रतिघाति भवति, एककालमेव च सर्वानभिहितलक्षणान् भावान् विकारान् वेदयते, नैवमौदारिकाहारकादीन्यतो विशिष्टलक्षणमेवेदं विज्ञेयम् ॥ तथा चोक्तं भगवत्यां तृतीयशते पञ्चमोद्देशके-" अंणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थीरूवं जाव संदमाणियारूवं वा विउवित्तए १ । हंता पभू । अणगारे णं भंते ! भावियप्पा केवइयाई पभू इत्थीरूवाई विउवित्तए ? । गोयमा ! से जहा नामए जुवति जुवाणे हत्थेणं हत्थंसि गिहिज्जा चक्कस्स वा नाभी अरगाउत्ता सिया, एवमेव गोयमा! अणगारे णं भावियप्पा वेउव्वियसमुग्धाएणं समोहणित्ता संखिज्जाई जोयणाई दंडं निसिरति जाव दोच्चपि वेउव्वियसमुग्धाएणं समोहणित्ता पभू केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव करित्तए, अदुत्तरं च णं गोयमा ! पभू तिरियमसंखेजदीवसमुद्दे भरिए विउव्वित्तए जाव नो चेवणं संपत्तीए विउव्वति वा विउव्वस्संति वा" (मु०१६१)॥तथा चतुर्दशशते अष्टमोद्देशके-" अत्थ णं भंते ! अव्वाबाधा ( हा) देवा ? हता अस्थि। से केणडेण भते! एवं वुच्चतिअव्वाबाधा देवा अव्वाबाधा देवा ? गोयमा ! पभूणं एगमेगे अव्वाबाधे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविड्ढेि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसइविहं नट्टविहिं उवदंसेत्तए, नो चेवणं तस्स पुरिसस्स किंचि आबाधं वा वाबाहं वा उप्पाएइ छविच्छेदं वा करेइ, सुहुमं च णं उवदंसेज्जा, से तेणटेणं जाव अव्वाबाधा देवा" (मू० ५३१)। तथाऽष्टादशशते सप्तमोद्देशके-" "देवे णं भंते महढिए जाव महेसक्खे स्वसहस्सं विउन्वित्ता पभूणं अण्णमण्णेणं सद्धि संगाम संगामित्तए १हंतापभू, ताओणं भंते ! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ? गोयमा! एकजीवफुडाओ नोअणेगजीवफुडाओ। ते णं भंते ! तेसिं १ अनगारो भगवन् ! भावितात्मा बाह्यान् पुद्गलान् अपर्यादाय प्रभुः एकं महत् स्त्रीरूपं वा, यावत् स्यन्दमानिकारूपं वा विकुर्वितुम् ? । हन्त प्रभुः । अनगारो भगवन् ! भावितात्मा कियन्ति प्रभुः स्त्रीरूपाणि विकुर्वितुम् ? गौतम ! स यथा नाम युवतिं युवा हस्तेन हस्ते गृहणीयात् , चक्रस्य वा नाभिः अरकायुक्ता स्यात्, एवमेव गौतम | अनगारोऽपि भावितात्मा वैक्रियसमुद्घातेन समवहन्ति, यावत्-प्रभुः गौतम ! अनगारो भावितास्मा केवलकल्पंजंबूद्वीपं द्वीपं बहुभिः स्त्रीरूपैः आकीर्णम् , व्यतिकीर्णम् , यावत्-कर्तुम् । अथोत्तरं च गौतम | प्रभुः तिर्यग्-असंख्यद्वीपसमुद्रान् भर्तु विकुळ यावत् नो चैव सम्पत्त्या विकुर्वति विकुर्विष्यति वा। २ सन्ति भदन्त ! अव्याबाधा देवाः ? हन्त सन्ति । तत् केनार्थेन भदन्त ! एवमुच्यते--अव्यावाधा देवा अव्याबाधा देवाः ? गौतम ! प्रभुः एकैकोऽव्याबाधदेवः एकैकस्य पुरुषस्य एकैकस्मिन् अक्षिपत्रे दिव्यां देवधि दियां देन युति दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाव्यविधि उपदर्शयितुम्, नैव तस्य पुरुषस्य कांचिदाबाधा पा व्याबाधां नोत्पादयति छविच्छेदं वा करोति, सूक्ष्मतयोपदर्शयेत् , तदेतेनार्थेन यावदव्याबाधा देवाः। ३ देवो भदन्त ! महर्धिकः यावत् महेशाख्यः रूपसहस्रं विकुळ प्रभुरन्योऽन्येन साध सङ्ग्राम सङ्ग्रामयितुम् ? इम्त प्रभुः, तानि भदन्त ! शरीराणि किमेकजीवस्पृष्टानि अनेकजीवस्पृष्टानि ? गौतम ! एकजीवस्पृष्टानि नानेकजीव. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy