________________
२१२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ पन्धनमालम्बमानचर्ममण्डलमुपलक्ष्यते तदेव जातुचिदतः शीर्यत इत्युच्यते, परिणमतीति समन्ताजराभारविधुरमानमति परिपेलवग्रहणशक्तीन्द्रियग्रामं वलीवलयलेखाविचित्रमन्यदिवोपजायते, अतो मुहुर्मुहुरुद्गमनाद् उदारमेवौदारिकं स्वार्थे प्रत्ययविधानात् । नैवमन्यानीति, यथेदमौदारिकमेवंविधानेकविशेषणविशिष्टं न तथा वैक्रियाहारकतैजसकार्मणानि, नहि क्रियस्य जरसा विवृद्ध्या वा प्रतिक्षणं योगोऽस्त्यवस्थितत्वात् तथाऽऽहारकस्य, तैजसकार्मणयोस्तु सुतरां न समस्त्यङ्गोपाङ्गाद्यनिवृत्तेः । अथवाऽन्यथा व्युत्पत्तिः-यथोद्गमं पा निरतिशेषमित्यादि भाष्यम् । यो य उद्गमो यथोद्गमं निरतिशेष निःशेषं निरतिशयं वा मांसास्थिस्नायवाद्यवबद्धत्वात् सर्वमेव तुल्यम् , ग्राह्यादिधर्मयोगाद् गृह्यते पाण्याघवयवैरिन्द्रियैर्वा, छिद्यते परश्वादिना, भिद्यते नाराचादिना, दह्यतेऽनिभास्करादिना, हियते महावायुवेगेनेत्येवमादिभिर्विदारणादुदारमुच्यते, पृषोदरादित्वाच्च संस्कारयत्युदारणादौदारिकम् । नैवमन्यानीति सुज्ञानम् । नहि वैक्रियादिषु मांसास्थिग्राह्यादयो विशेषाः सन्ति । अथवाऽन्यथा उदारमिति चेत्यादि । चशब्दोऽथवेत्यस्यार्थे । स्थूलस्याभिधानमुदारमिति स्वल्पप्रदेशोपचितत्वात् बृहत्वाच्च भेण्डवदुदारं स्थूल मिति । अस्यैव पर्यायान् सुखावबोधार्थमाख्यातिस्थूलमुद्गतं पुष्टं बृहन्महदित्युदारमेवौदारिकम् । स्थूलत्वाद् भेण्डवत् ऊर्ध्वं गतमुच्छ्रायमुद्गतमतिप्रमाणत्वात् , पुष्टं शुक्रशोणितादिप्रचितत्वात् , बृहत् प्रतिक्षणं वृद्धियोगात् , योजनसहस्रप्रमाणावस्थितारोहपरिणाहत्वान्महत् , उदारमेवौदारिकमित्यनेन न तनियमः किन्तु प्रदर्शनमेतत् क्वचित् स्वार्थे क्वचिन्निवृत्ताद्यर्थेष्विति । नैवं शेषाणि वैक्रियादीनि । किं कारणमत आह-तेषां हि परं परं सूक्ष्ममित्युक्तं (२, ३८) यस्मात् तेषां वैक्रियादीनां परं परं प्राक सूक्ष्ममभिहितं तस्मान्नैवं शेषाणीति ॥
भा०-वैक्रियमिति । विक्रिया विकारो विकृतिर्विकरणमित्यनर्थान्तरम् । बैंक्रियस्य विस्तरेण
_ विविधं क्रियते । एक भूत्वा अनेकं भवति । अनेकं भूत्वा एक ___ व्याख्या
" भवति । अणु भूत्वा महद् भवति । महच्च भूत्वाऽणु भवति ।
एकाकृति भूत्वा अनेकाकृति भवति । अनेकाकृति भूत्वा एकाकृति भवति । दृश्यं भूत्वा अदृश्यं भवति । अदृश्यं भूत्वा दृश्यं भवति । भूमिचरं भूत्वा खेचरं भवति । खेचरं भूत्वा भूमिचरं भवति । प्रतिघाति भूत्वा अप्रतिघाति भवति । अप्रतिघाति भूत्वा प्रतिघाति भवति । युगपचैतान् भावाननुभवति । नैवं शेषाणीति । विक्रियायां भवति, विक्रियायां जायते, विक्रियायां निर्वय॑ते, विक्रियैव वा वैक्रियम् ॥
टी०- वैक्रियमित्यादि भाष्यम् । प्राक तावत् सुखावबोधार्थ पर्यायानाचष्टे-विक्रिया विकारो विकृतिर्विकरणमित्यनर्थान्तरम् । विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, प्रकृतेरन्यत्वं विकारः, विचित्रा कृतिविकृतिः, विविधं क्रियत इति विकरणम् ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org