________________
सूत्र ४९] स्वोपज्ञमान्य-टीकालङ्कृतम्
२१५ मा०-एभ्य एष चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम्। किं चान्यत् ।
कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसङ्गशरीराणां नानार ख्यातोऽवगाहनतः स्थितितोऽल्पबहुत्वत इत्यतेभ्यश्च नवभ्यो हेतवः
विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति ॥४९॥ ही.--एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम् । उदाराद्यर्थविशेषेभ्यो विहितलक्षणेभ्यः बिविक्तखरूपेभ्यः शरीराणां नानात्वं सिद्धं, घटपटादीनामिव लक्षणभेदात् सिद्धमिति । किं चान्यदित्यादि । न केवलमन्वर्थसंज्ञाख्यानद्वारेणैव विशेषः शरीराणाम्, अन्येभ्योऽपि हेतुभ्यः सम्भवत्येव कारणादिभ्यः । तत्र कारणतस्तावत् स्थूलपुद्गलोपचितमृत्यौदारिकम् । न तथा वैक्रियादीनि । 'परं परं सूक्ष्मम्' (अ० २, सू०३८) इति वचनात् ॥ तथा विषयकृतो भेदः । विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषया जङ्घाचारणं प्रत्यारुचकपर्यन्तात् तिर्यक, अर्ध्वमा पाण्डुकवनात् । वैक्रियमस
ङ्ख्येयद्वीपसमुद्रविषयम् । आहारकस्य यावन्महाविदेहक्षेत्राणि । तैजसकार्मणयोरासर्वलोकात् । तथा स्वामिकृतो विशेषः। औदारिकस्य मनुष्यतिर्यश्चः । वैक्रियस्य देवनारकास्तिर्यमनुष्याश्च केचित् । आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयुतः । तैजसकार्मणयोः सर्वसंसारिणः । तथा प्रयोजनकृतो भेदः। औदारिकस्य धमाधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनम् । वैक्रियस्य स्थूलसूक्ष्मैकत्वव्योमचरक्षितिगतिविषयाधनेकलक्षणा विभूतिः । आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः। तैजसस्थाहारपाकः शापानुग्रहदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः । तथा प्रमाणकृतो भेदः । सातिरेकं योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम् । रत्निप्रमाणमाहारकम् । लोकायामप्रमाणे तैजसकार्मणे । तथा प्रदेशसङ्ख्यातो भेदः । 'प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् अनन्तगुणे परे' (अ० २, सू० ३९-४०) इत्युक्तः प्रदेशभेदः प्राक् । तथाऽवगाहनाकृतो विशेषः । सातिरेकयोजनसहस्रप्रमाणमौदारिकमसङ्ख्येयगुणप्रदेशेषु यावत्स्ववगाढं भवति तेभ्यो बहुतरकास
ङ्ख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति, आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात, तैजसकार्मणे लोकान्तायताकाशश्रेण्यावगाढे भवतः । तथा स्थितिकृतो भेदः। औदारिकं जघन्येनान्तर्मुहूर्तस्थिति, उत्कर्षेण त्रिपल्योपमस्थिति । वैक्रिय जघन्येनान्तर्मुहर्तस्थिति, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति । आहारकमन्तर्मुहूर्तस्थित्येव । तैजसकार्मणयोः सम्तामानुरोधादनादित्वमपर्यवसानता चाभव्यसम्बन्धितया, अनादित्वं सपर्यवसानता च मध्यसबन्धित्वेनेति । तथाऽल्पबहुत्वकृतो विशेषः । सर्वस्तोकमाहारकं यदि सम्भवति कदा. चिम सम्भवत्यपि । किं कारणम् ? येन तस्यान्तरमुक्तं जघन्येनैकसमयः, उत्कृष्टतः षण्मासा, तयदि भवति ततो जघन्येनैकमादि कृत्वा यावदुत्कर्षेण नवसहस्राणि युगपद् भवन्त्याहारकशरीराणाम् । आहारकाद् वैक्रियशरीराण्यसङ्ख्येयगुणानि नारकदेवानामसङ्ख्येयत्वात् असर
,' पर्वतात् ' इति क-पार्श्वस्थपाठः । २ 'तस्यान्तर्मुहूर्त' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org