________________
सूत्रे ४६-४७] स्वापज्ञभाष्य-टीकालङ्कृतम्
२०७ न्यायेन क्रियन्ते तस्मात् सोपभोगानि इति निगमनम् , कार्मणमपहायकं शेषाण्येवंविधेनोपभोगेन सोपभोगानीति ॥ ४५ ॥
भा०-अत्राह-एषां पञ्चानामपि शरीराणां सम्मूछनादिषु त्रिषु जन्मसु किं क जायत इति । अत्रोच्यते
टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः । अजानानः प्रश्नयति-एषामौदारिकादीनां वपुषां पश्चानामपि त्रिषु जन्मसु सम्मूर्च्छनादिषु किं शरीरं क जन्मनि जायते सम्भवत्युत्पद्यते वा । अत्रोच्यते
सूत्रम्-गर्भसम्मूछैनजमाद्यम् ॥ २-४६ ॥ भा०-आयमिति सूत्रक्रमप्रामाण्यादौदारिकमाह । तद् गर्भे सम्मूछने वा जायते ॥ ४६ ॥
टी०-आदौ भवमाद्यं शरीरप्रकरणप्रथमसूत्रक्रमप्रामाण्यादौदारिकमाह, तद् गर्भे जन्मनि सम्मूछने वाजायते-सम्भवतीति, जनिःजन्मनि प्रत्येकमभिसम्बध्यते। गर्भे जातं गर्भाद् वा गर्भजमेवं सम्मूछैनजमपि, उक्तलक्षणे च गर्भसम्मूर्च्छने जन्मनामतो गर्भज
न्मनां सम्मूछेनजन्मनां च प्राणिनामौदारिकं तावद् भवति, न त्ववधारऔदारिकशरीरस्य ।
णमौदारिकमेव, तैजसकार्मणयोरपि तत्र सम्भवात् , लब्धिप्रत्ययवैक्रियाहा
रकयोर्वा गर्भजन्मन्युत्तरकालभावित्वात् ॥ ननु च भूते डविधानं तत् कथं भाष्यकारो विवृणोति जायत इति वर्तमानकालाभिधायिना शब्देनेति ?। उच्यते-न दोषोऽयं
यसाज्जातमुत्पन्नमुत्तरकालमपि पुनः पुनः पर्यायापेक्षया सम्भवतीत्युपऔदारिकप्रमाणम्
- पन्न एव निर्देश इति । एतच शरीरं जघन्येनाङ्गुलासङ्ख्येयभागप्रमा
र णमुत्कर्षतो योजनसहस्रप्रमाणमपि ॥ ४६॥
सूत्रम्-वैक्रियमौपपातिकम् ॥ २-४७ ॥
भा०-वैक्रियं शरीरमौपपातिकं भवति । नारकाणां देवानां
स्वामिनः
वैक्रियस्वामिनः चेति ॥४७॥
टी०–उपपातजन्मोपपातशब्देनोच्यते तस्मिन् भवमौपपातिकं वैक्रियं शरीरं, तन्निमित्तत्वादवधिवत् सहजम् , तच्च सामर्थ्यान्नारकदेवानामेव न शेषाणाम् । द्विविधं च
तद्-भवधारकमुत्तरवैक्रियं च, तत्राद्यस्य जघन्येनाङ्गलासङ्ख्येयभागः वैक्रियप्रमाणम्
- प्रमाणम्, उत्कृष्टं पञ्च धनुःशतानि, उत्तरवैक्रियं जघन्येनाङ्गलसङ्ख्येयभागप्रमितमुत्कर्षेण योजनलक्षणप्रमाणमिति ॥ ४७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org