________________
२०८
सद्भाव:
तत्त्वार्थाधिगमसूत्रम्
अध्यायः२ सूत्रम्--लब्धिप्रत्ययं च ॥ २-४८ ॥
भा०-लब्धिप्रत्ययं च वैक्रियं शरीरं भवति। तिर्यग्योनीना लभ्या वैकिय.. - मनुष्याणां चेति ॥४८॥
टी०-लब्धिप्रत्ययं च वैक्रियं चेत्यादि । चशब्दादुत्कृष्टं वैक्रियमुद चीचरद् भाष्यकारः । तपोविशेषजनिता लब्धिस्तत्प्रत्ययं-तत्कारणमेतच्छरीरं भवत्यजन्मज मिदमित्यर्थः । अथवा गर्भजन्मनामेवेदमुत्तरकालं भवतीति न कश्चिद् दोषः । लब्धिप्रत्ययवैक्रियशरीरप्रतिविशिष्टस्वामिनिर्दिदिक्षया आह-तिर्यग्योनीनां मनुष्याणां चेति । सामान्याभिधानेऽपि लब्धिप्रत्ययवचनाद, भूयसां गर्भव्युत्क्रान्तितिर्यङ्मनुष्याणामिदं द्रष्टः व्यम् , तपोविशेषानुष्ठानाद्, वायोश्च वैक्रियं लब्धिप्रत्ययमेव, शेषतिर्यग्योनिजानां मध्ये, नान्यस्येति ॥४८॥
अत्राह-अथाहारकं किंलक्षणमिति १ । अत्रोच्यतेसूत्रम्-शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधर एव ॥२-४९॥
भा०-शुभमिति शुभद्रव्योपचितं शुभपरिणाम चेत्यर्थः । विशुद्धमिति आहारकस्य स्व. विशुद्धद्रव्योपचितं असावा चेत्यर्थः । अव्याघातीति आहारकरूपम् शरीरं न अव्याहन्ति न व्याहन्यते चेत्यर्थः ॥
टी-इदमपि लब्ध्यपेक्षमेव, किन्तु वैक्रियादयं विशेषः शुभादिकृतः, अजन्मजवं च सामान्यम् । शुभमिति शुभद्रव्योपचितमित्यादि । शुभानि द्रव्याणीष्टवर्णगन्धरसस्पर्शभाञ्जि तैः प्रचितं-निवर्तितम्, शुभः परिणामश्चतुरस्र संस्थानमाकारो यस्य तच्छुभपरिणामं चाहारकं भवति । चशब्दः समुच्चये । विशुद्धद्रव्योपचितं शुभपरिणामं चेति । विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः । स्वच्छस्फटिकशकलमिव सकलवस्तुप्रतिबिम्बाधारभूतं विशुद्धद्रव्योपचितमुच्यते । अपरे वर्णयन्ति-विशुद्धं शुक्लमत्र विवक्षितम्, असावधमिति अवयं-गर्हितं-पापं सहावयेन सावद्यम्, न सावद्यमसावद्यम्, सावधं हिंसादिप्रवृत्तिर्यसात, इदं न हिंसादौ प्रवर्तते, न च हिंसादिप्रवृत्तितः उत्पद्यते, तस्माद विशुद्धमसावद्यमाहारकमित्युच्यते । अव्याघातीति व्याहन्तुं शीलमस्य व्याघाति, न व्याघाति अव्याघाति, आहारकशरीरं न किञ्चिद् व्याहन्ति-विनाशयति, न व्याहन्यते इति, न च तदन्येन पदार्थेन व्याहन्तुं शक्यते । कथं पुनरिदमेकेन यत्नेनोभयं लभ्यते कर्ता कर्म चेति ? कुल्ल्युटो बहुलाभिधानात् । निवृत्तिकायहेतुसमुच्चयार्थश्वशब्दः ॥
१ सूत्रे ' तैजसमपि ' इत्यधिकं क-ख-पुस्तकयोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org