________________
प्रयोजनानि
२०६ तत्त्वार्थाधिगमसूत्रम्
[मण्यायः २ वेतसि कार्मणमनुपभोगमध्यगायि सूरिणा इत्येवमुपात्तप्रतिविशिष्टोपभोगव्यतिरिक्तेनोपभोगेन यदि तदमिसम्बध्यते गमनादानादिक्रियारूपेण कषाययागप्रत्ययेन बन्धेन न कश्चिद् दोषः । एवंविधः सर्वथोपभोगस्तस्य प्रतिषिध्यते नोपभोगसामान्यमिति । अथ कार्मणव्यतिरिक्तानि शरीराणि कथं प्रतिपत्तव्यानीति?अत आह-शेषाणि तु सोपभोगानीत्यादि। उक्तं कार्मणम्, तद्व्यतिरिक्तान्यौदारिकवैक्रियाहारकतैजसानि शेषशब्देनाभिधित्सितानि, तानि च सोपभो
.. गानि प्रतिपत्तव्यानि । कथम् ? औदारिके तावनिर्वृत्त्युपकरणेन्द्रियसद्भावाऔदारिकादीनां
ना दिष्टानिष्टविषयसम्पृक्तौ सत्यां सुखदुःखोपभोगः परिस्फुटपरिनिष्पन्न
पाणिपादावयवकलापत्वाच, वधानृताद्यास्रवद्वारवर्तित्वात् कर्मबन्धानुभवनिर्जराः सिद्धाः, वैक्रियेऽप्येवमेव भावना कार्या, आहारके तु शरीरेन्द्रियाभिव्यक्तौ सत्या सुखदुःखोपभोगः सम्भवति ॥ नन्वप्रमत्त इत्युक्तं प्राक् को दोषः ? सत्यामपि शब्दाद्युपलब्धौ न प्रमाद्यत्यस्याम्, अनवस्थितशुभाशुभगुणाः खल्वमी शब्दादयो विषया न मनस्विनः परितोषमाधातुं क्षमा इत्यनित्यतावगमपूर्विकां वैराग्यवासनामेवाधिवसति, न तूत्कर्षमायाति, निन्दा वा समादत्ते, किन्तु यथावस्थिततया स्वसङ्कल्पशिल्पविरचनां विधृय तान् विषयान्स विद्वान् परिणमयति, कर्मबन्धानुभवनिर्जरणानि त्वस्य तथाविधास्रवजनितानि न सम्भाव्य न्तेप्रमत्तत्वादेव, न चावश्यं कार्मणेऽसम्भवता, सकलेनोपभोगेन तत्र भवितव्यम्, सुखदाखोपभोगेनापि हि भोगवदेवेष्यते न निरुपभोगं यथासम्भवमर्थप्रतिपत्तेः सामान्यतो वा सम्भवः, अनुभवनिर्जरणे तु प्राक् कृतकर्मणोऽपि स्तः, कर्मबन्धस्त्वप्रमादत्वादतिदुर्घटः, तथाविधो योगप्रत्ययः पुनः केवलिनोऽपि न निवर्तत एवेति प्रतिपत्तव्यम् । तैजसशरीरेण तेजसि निसृष्टे दग्धे वैरिणि मनसः परितोषसुखमापाय जायते परमानन्दः, तथाऽनुग्राह्यपक्षे शिशिरतेजोनिसर्गेण परित्राते प्राणिनि प्रीतेरनुत्तमायाः प्रादुर्भावः । दुःखमपि वेद्यते तपःप्रभावादिभिर्बलवता परिरक्षितस्य द्विषोऽन्यस्य वा स्वनिसृष्टे तेजस्यप्रभवति मनागप्यपकर्तुमुपकत वा तैजसशरीरभाजः स्फुटमेव । एष चैवंविधसुखदुःखोपभोगस्तैजसनिमित्त इति तेन द्वारेणोपजायते, अतस्तेन सुखदुःखे उपभुज्येते, शापानुग्रहप्रवणत्वात् , तद्द्वारेणैव पुण्यस्यापुण्यस्य वा बन्धः तत्पूर्विकैवानुभवनिर्जरे न प्रतिषेद्धं पार्येते, अतस्तदपि सोपभोगम् , समुद्घातनिसर्गात्मत्वात् । लब्धिप्रत्ययमेतदेवं भवतु, यत् पुनः सर्वदा समस्ति सर्वप्राणिषु तत् कथं सोपभोगम् ? तदपि हि परिगृहीताहारपाककारित्वात् सम्यकपरिणामापादनात् सुखमाधत्ते, तद्विपरीततया तु व्याप्रियमाणं तदेव दुःखाय सम्पद्यते, कर्मबन्धानुभवनिर्जरास्तु प्रत्येकं तस्य न सम्भाव्यन्ते, औदारिकादिसहवर्तित्वात् , अतः पूर्वकेणाप्युपभोगेन सोपभोगं भवत्येवेति मा न परितुषः । शेषाणि तु सोपभोगानि इत्यस्यैव वचनस्य विवरणद्वारेण भाष्यप्रणयनं, यस्मादित्यादि । अन्येनोपभोगेन सोपभोगानि मा ग्रहीत् कचिदतः सुहृद् भूत्वा मूरिराचष्टे, औदारिकादिभिः सुखदुःखोपभोगः कर्मबन्धानुभवनिर्जराश्च व्याख्यात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org