________________
सूत्रं ३९ ]
स्वोपज्ञभाष्य - टीकालङ्कृतम्
१९७
टी० - तेषाम्, अनन्तरसूत्रोपदिष्टाना मौदारिकादीनां शरीराणां परं परं सूक्ष्मं वेदितव्यम् । निर्ज्ञातत्वादादिशब्दप्रयोगः, औदारिकादीनामन्यार्थवाचित्वमपि सम्भवतीति, अतो विशेषणं शरीराणामिति । विशरणशीलत्वाच्छरीराणि । परं परमिति वीप्सया व्याप्तिं दर्शयति, पूर्व पूर्वमपेक्ष्य औदारिकादीनां परं परं सूक्ष्मं सूक्ष्मगुणं द्रव्यं सूक्ष्मं तद् यत्रास्ति तत् सूक्ष्मम्, अर्शआदिपाठाच्छरीरम्, अतोऽयमर्थः सूक्ष्मपरिणाम पुद्गलद्रव्यारब्धं वेदितव्यम्अवसेयम् । एतेन प्रामाण्याधिकृतं चोद्यमपास्तं भवति, सूक्ष्मत्वादेव च प्रायो वैक्रियादिचतुष्कस्य दर्शनमनुपपन्नम्, इह परिणतिविशेषमङ्गीकृत्य पुद्गलाः केचिदतिस्थूलतया वर्तन्तेऽल्पेऽपि सन्तो भेण्डकाष्ठादिषु, केचिन्निचिततरपरिणाम भाजोऽतिभूयांसोऽपि सूक्ष्मा - वस्थामासादयन्ति करिदशनादिपु, प्रसिद्धं चैतत् प्रायस्तुलामारोपिते भेण्डदन्तखण्डे प्रमाणतः सदृशे परिणामागतार्मेतिविप्रकृष्टां धियमाधत्ते इति, तदेतत् परिशिथिलां परिणतिमनपेक्ष्य निचिततरां पुद्गलानामन्यथा लाघवं गौरवं वा प्रतिपत्तुमशक्यं तुल्यप्रमाणत्वे सति, अतः पूर्वपूर्वमुत्तरोत्तरापेक्षया शरीरं परिस्थूरद्रव्यारब्धमतिशिथिल निचयमदभ्रं च भवत्युत्तरं सूक्ष्मं प्रत्यारब्धमतिघननिचयमणु च भवतीति पुगलद्रव्यपरिणतेवैचित्र्यात् । अमुमेवार्थ भाष्यकारः प्रकाशयन्नाह - तद्यथा - औदारिकादित्यादि । तदेतद् यथा स्पष्टतरं भवति तथा वेद्यते - औदारिकाच्छरीराद् वैक्रियं सूक्ष्मम, औदारिकमल्पद्रव्यं स्थूलं शिथिलनिचयम्, वैक्रियं बहुतरद्रव्यं सूक्ष्मघननिचयं चेति, अतः सूक्ष्ममुच्यते । ननु चौदाशरीराणां सूक्ष्मता - रिकं योजनसहस्रप्रमाणमुत्कर्षात् वैक्रियं तु योजनलक्षप्रमाणम्, अतः दर्शनम् कथं सूक्ष्ममिति १ । उच्यते - यद्यपि प्रमाणतस्तदतिमहद् वैक्रियं तथापि सूक्ष्ममेवाश्यत्वात् इच्छया तु तत्कर्तुर्दृश्यत इत्यतो नो दोपः, तथा वैक्रियादाहारकं सूक्ष्ममित्यभिसम्बन्धः, सूक्ष्मतर परिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धमाहारकम्, आहारकात् तैजसं बहुतरद्रव्यमतिसूक्ष्मपरिणामपरिणतं च तैजसात् कार्मणमतित्रहुकद्रव्यप्रचितमतिसूक्ष्मं च भवति, अतः सूक्ष्मताऽऽपेक्षिकी प्रतिपत्तव्या न सूक्ष्मनामकर्मोदयजनितेति ॥ ३८ ॥
एवं तावत् कारणानां सूक्ष्मात् परं परं सूक्ष्ममभिहितमतिब हुपुद्गलद्रव्यारब्धमपि प्रचय विशेषात् तत् कथमुत्तरोत्तरेषु बहुतरद्रव्यारब्धमिति । अत आह—
सूत्रम् - प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ २-३९ ॥
भा० – तेषां शरीराणां परं परमेव प्रदेशतोऽसङ्ख्येयगुणं भवति प्राक् तैजसात्, औदारिकशरीरप्रदेशेभ्यो वैक्रियशरीरप्रदेशा असप्रदेशापेक्षया शरीरतारतम्यम् ख्येयगुणाः, वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्ख्येयगुणा इति ॥ ३९ ॥
१' परिमाणतां ' इति ग-पाठः । २ ' मविप्रकृष्टां ' इति क- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org