________________
१९८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २
टी० - तेषां शरीराणामित्यादि भाष्यम् । तेषामित्यौदारिकादीनामनन्तरसूत्रात् परं परमित्येतदनुवर्तते, अभिसम्बध्नाति भाष्यकारः परं परमेव, एवशब्दस्तमेव क्रम नियममवद्योतयति परं परमित्यमुमेव क्रममङ्गीकृत्यासङ्ख्येयगुणता विधीयते नान्यथेति । प्रदेशल इति । प्रवृद्धो देशः प्रदेशः, अनन्ताणुकस्कन्धः प्रदेशोऽत्राभिधीयते, एवंविधैः प्रदेशैः प्रदेशतः “ इतरेभ्योऽपि दृश्यन्ते " इति वचनात् असङ्ख्येयगुणं भवति । एतदुक्तं भवति - औदारिकशरीरग्रहणयोग्यो यः स्कन्धोऽनन्तप्रदेश एकः स यदाऽन्यैरनन्ताणुकैः स्कन्धैर सङ्ख्येयैगुणितो भवति तदा वैक्रियग्रहणयोग्यो जायते, एवं वैक्रियग्रहणयोग्योऽनन्तप्रदेशस्कन्धः, rat यदाऽन्यैरनन्ताणुक स्कन्धैरसङ्ख्येयैरभ्यस्तो भवति तदाऽऽहारकग्रहणयोग्यतामेति । प्राक् तैजसादिति मर्यादां दर्शयति, न खलु सर्वेष्वयं क्रमो ग्राह्यः, किन्तु तैजसकार्मणे विहायाद्येषु त्रिषु शरीरेष्वेतद् विधानम् । अमुमेवार्थ स्पष्टतरमाचष्टे भाष्येणामुनाऔदारिकशरीरप्रदेशेभ्यो वैकियप्रदेशा असख्येयगुणाः, औदारिकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽपि सर्वस्तोकः, उत्तरस्कन्धापेक्षयाऽनन्तसङ्ख्यायाश्चानन्तभेदत्वात्, अत एक औदारिकयोग्यः स्कन्धो यदाऽन्यैरनन्त प्रदेशस्कन्धैरसङ्ख्येयैगुणितो भवति तदा वैक्रिययोग्य इति पिण्डार्थः । औदारिकशरीरे प्रदेशाः औदारिकशरीरप्रदेशाः अनन्ताणुकाः स्कन्धा इत्यर्थः । न पुनः प्रदेशाः परमाणवो गृह्यन्तेऽर्थासम्भवात्, वैक्रियशरीरप्रायोग्याः प्रदेशाः स्कन्धा जायन्ते असङ्ख्ये यैरनन्तपरमाणुप्रचितस्कन्धैरन्यैर्गुणिताः, औदारिकयोग्या ये स्कन्धास्तेऽत्र गुण्यतया विवक्षिताः । बहुवचनमौदारिकशरीरयोग्यस्कन्धबहुत्वापेक्षं वैक्रियस्कन्धबहुत्वापेक्षं चेति । तथा वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असख्येगुणा इति, वैक्रियशरीरयोग्यस्कन्धेभ्यः आहारकशरीरयोग्याः स्कन्धा अनन्ताणुभिरसङ्ख्येयैः स्कन्धैर्गुणिता भवन्ति वैक्रिययोग्याः स्कन्धाः, प्रत्येकमनन्तप्रदेशैरसङ्ख्ये यैः स्कन्धैरभ्यस्ताः सन्त आहारकयोग्या जायन्त इति, बहुवचनमत्राप्युभययोग्यस्कन्धबहुत्वापेक्षमिति ।। ३९ ।।
अत्राह - प्राक तैजसादित्युक्तम् । अथ कः पुनस्तैजसकार्मणयोः स्कन्धप्रदेशनियम इति १ । अत्रोच्यते
सूत्रम् - अनन्तगुणे परे ॥ २-४० ॥
भा०- परे द्वे शरीरे - तेजसकार्मणे पूर्वतः पूर्वतः प्रदेशार्थतयाऽनन्तगुणे तैजस कार्मणयोः भवतः । आहारकात् तैजसं प्रदेशतोऽनन्तगुणम् । तैजसात् कार्मणमनन्तगुणमिति ॥ ४० ॥
प्रदशमानम्
टी० – परे द्वे शरीरे इत्यादि भाष्यम् । परे इत्युक्तेऽपि द्विशब्दोपादानं सप्तम्याशङ्काव्यावृत्यर्थम्, द्वित्वमन्यथाऽपि सम्भवतीति प्रतिविशिष्टद्रय प्रदर्शनार्थमाह- तैजसकाइति । पूर्वस्मात् पूर्वतः वीप्सया व्याप्तिमादर्शयति- प्रदेशार्थतयेति । अनन्ताणुस्कन्धार्थ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org