________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ कर्मणस्तु सह तेन पूर्वमुत्तरत्र च यथापूर्व मोहक्षयः पश्चाज्ज्ञानावरणक्षय इति, तदेतत् सर्वमुपपत्तिजालमनैकान्तिकम् , अभिन्नकर्मस्वपि दर्शनात् । अन्यच्च ज्ञानावरणादिकर्माष्टकात् पृथक् कल्प्यमाने कार्मणे नवमकर्मप्रसङ्गः, कार्यकारणवादाभ्युपगमे वा कर्मकार्मणयोः स्यात् अन्यत्वं स्यात् अनन्यत्वमभ्युपेयमन्यथा वा त एव दीर्घायुषोऽवगच्छन्ति येतान्यत्वमेकान्तेनाभिनिविशन्त इति । वयं तु ब्रूमः-कर्मभिर्निष्पन्नं कर्मसु भवं कर्मसु जातं कर्मैव वा कार्मणमिति न कश्चिद दोषः प्रक्रियायामाहितनैपुणस्येति ॥ अथैषामौदारिकादीनां किं सर्वपुद्गलद्रव्याण्येव ग्रहणप्रायोग्यानि, आहोस्वित् कानिचिदेवेति । उच्यते-न खलु सर्वाणि, किन्तु द्रव्यवर्गणाप्ररूपणक्रमेण कानिचिदेव योग्यानि भवन्ति, तद्यथा-परमाणनामेका वर्गणा-वर्गोराशिरिति पर्यायाः। द्विप्रदेशानामपि स्कन्धानामेका वर्गणा, एवमेकपरमाणुवृद्धया सङ्ख्येयप्रदेशस्कन्धानां सङ्ख्येयवर्गणाः, असङ्ख्येयप्रदेशस्कन्धानामसङ्ख्येयाः, ततोऽनन्तप्रदेशस्कन्धानामनन्ता वर्गणाः, स्वल्पपुद्गलप्रयोगत्वादयोग्याः समुल्लद्ध्या अनन्ता एवौदारिकशरीरयोग्या वर्गणा भवन्ति, पुनस्तस्यैवाग्रहणयोग्यास्ततोऽनन्ताः अतिबहुपुद्गलात्मकत्वात्, एवमेकैकपुद्गलप्रक्षेपपरिवृद्धया वैक्रियाहारकतैजसभाषाप्राणापानमनःकार्मणानामेकैकस्यायोग्यायोग्या अयोग्याश्चेति द्रव्यवर्गणात्रयमाभावनीयम् , आधा च अल्पत्वादयोग्या, अन्त्या तु बहुत्वात्, मध्यमा तदनुरूपत्वाद् योग्येति सर्वत्र वासनाऽऽधेया। भाषाप्राणापानमनोग्रहणमत्राप्रस्तुतमपि कार्मणशरीरयोग्यवर्गणाप्रदर्शनार्थमध्यवसातव्यम् । एवं तावत् प्रतिविशिष्टपुद्गलद्रव्यनिर्मापितान्यौदारिकादीनि निश्चितम् ॥ अथेदानीमिदं भाष्यमनुस्रियते-इत्येतानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति, एवमेतानि पश्चैवान्यूनानधिकानि शरीराणीति, शीर्यन्त इति शरीराणीति जीयमाणत्वाच्चयापचयवत्त्वाच विशरारुताभाद्ध्येतानि गतिचतुष्टयवर्तिनामेव प्राणिनां यथा सम्भवन्ति, न सिद्धानामिति सामर्थ्याद् व्युदासः । निर्घातस्य संज्ञिनः संज्ञेत्यतो न लघ्वपि शरीरग्रहणमादावुपन्यस्तं विशरारुत्वाच्छरीराणि इत्यन्वर्थसंज्ञासिद्धयर्थ न कायग्रहणमाश्रितं लघीयोऽपि । आदावौदारिकं स्थूलाल्पप्रदेशबहुस्वामित्वात् , ततो वैक्रियं पूर्वस्वामिसाधर्म्यात्, ततोप्याहारकं लब्धिसाधात् , ततस्तैजसं सूक्ष्मासख्येयस्कन्धात्मकत्वात् , ततः कार्मणं सर्वकारणाश्रयसूक्ष्मानन्तप्रदेशत्वादिति ॥ ३७॥
अत्राह-कथं पुनरयं विशेषो निश्चीयते औदारिकादीनामिति ? उच्यते-न्यायाद् वचनाच । न्याय उक्तः, वचनं त्विदं यथाक्रमं तेषां पूर्वस्मात् ।
सूत्रम्-परं परं सूक्ष्मम् ॥ २-३८॥ टी०-तेषामित्यनेन भाष्यकारः सूत्रसम्बन्धमावेदयतिशरीराणां परस्परं
भा०-तेषामौदारिकादीनां शरीराणां परं परं सूक्ष्म वेदिमहत्वाल्पत्वे परपर तव्यम् । तद्यथा-औदारिकाद् वैक्रियं सूक्ष्मम्, वैक्रियादाहार
कम् , आहारकात् तैजसम् , तैजसात् कार्मणमिति ॥ ३८ ॥ १ कादिशरी०' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org