________________
सूत्रं ३४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१९३
यावत्यो जातयस्तावद्भेदा योनयोऽपि पृथिवीकायस्येत्यवगन्तव्यम् । न च मूलयोनिमतिवर्तन्ते ताः, किन्तु जातिभेदाद् भिद्यन्त इति, अतः सङ्ग्राहकम्, एवं शेषाणामपि वाच्यम्, स्वजातिभेदापेक्षमेतत् परिमाणमिति ॥ ३३ ॥
अत्राह - उक्तं त्रिविधं जन्म, तत्र न संविद्महे तस्य त्रिविधस्यापि जन्मनः के स्वामिन इति, तद्विभागप्रदर्शनायेदमुच्यते
सूत्रम् - जराखण्डपोतजानां गर्भः ॥ २-३४ ॥
जानां
भा० – जरायुजानां मनुष्य- गो-महिष्यजाविकाश्व- खरोष्ट्र- मृग- चमर- वराहगवय-सिंह- व्याघ्रर्क्ष- द्वीपि-श्व-शृगाल- मार्जारादीनाम् । अण्डसर्प-गोधा-कृकलास-गृहको कलिका- मत्स्य-कूर्म-नशिशुमारादीनाम् । पक्षिणां च लोमपक्षाणां हंस- चाष-शुकगृध्र- श्येन - पारापत-काक- मयूर - मंण्डू-बक बलाकादीनाम् । पोतजानां शल्लक हस्तिश्वाविल्लापक- शश- शारिका - नकुल- मूषिकादीनाम्, पक्षिणां च चर्मपक्षाणां जलूका- वल्गुलि-भारण्ड- -पक्षिविरालादीनां गंर्भो गर्भाज्जन्मेति ॥ ३४ ॥
गर्भजजन्मवतां भेदाः
टी० - जराखण्ड पोत जानां गर्भः । अत्रायं जनिः प्रत्येकमभिसम्बध्यते, जरायुजानां अण्डजानां पोतजानामिति । जरायुनि जायन्ते स्म जरायुजाः - जरायुमध्यगताः, जरायुवेष्टिता इत्यर्थः । जरायुजानां मनुष्य-गो-महिष्यादीनामिति सुज्ञानं भाष्यम् । अण्डे जायन्ते स्माण्डजाः, तेषां अण्डजानां सर्प- गोधादीनामिति भाष्यं सुखावबोधमेव । अण्डजजातिभेदप्रदर्शनायेदं भाष्यम् । पक्षिणां च लोमपक्षाणां हंस- चाषेत्यादि प्रायो गतार्थम् । लोमप्रधानाः पक्षा येषां ते लोमपक्षाः, अपरे लोमपक्षिणामित्यधीयन्ते न तु च मत्वर्थीयोऽतिदुर्लभः स्याद् वा ज्ञापकादेः कथञ्चित्, अथवा पक्षिण एव विशिष्यन्ते, लोमानुगता लोमप्रधाना वा पक्षिणो लोमपक्षिणस्तत्राद्य पक्षिशब्दः पक्षिसामान्यमावेदयति, इतरस्तु व्यवच्छिद्य विशेषेऽवस्थापयतीति । पोता एव जाता इति पोतजाः शुद्धप्रसवा न जराखादिना वेष्टिता इतियावत् । अत्र च " अन्येष्वपि दृश्यन्ते" इति वचनाडुः, अपरे त्वेतच्छब्दव्युत्पत्तिभीत्या जराखण्डजपोतानां गर्भ इत्यभिधीयते - सूत्र माहित नैपुण्यास्तत् सर्वथा त एवावयन्ति सूरिविरचितन्यासमन्यथाकर्तुम्, वयं तु प्रकृतानुसरणमेव कुर्मः । पोतजानां शलकादीनामित्यादि भाष्यमतिस्फुटत्वान्न वित्रियते । पक्षिणां च चर्मपक्षाणामित्यादि । अत्रापि पूर्ववद् व्याख्या कार्या, शेषमतिस्पष्टमेव । गर्भो जन्मेति उक्तलक्षणमेषां प्राणिनाशेषाणां गर्भो जन्म भवतीति ॥ ३४ ॥
"
१ मद्दु ' इति घ-पाठः । २ ' गर्भो जन्मेति' इति घ-पाठः । ३ विचारणीयौ । ४ ' अभिदधते ' इति प्रतिभाति ।
२५ Jain Education International
For Personal & Private Use Only
अत्र च
4
तत्तु च ' इति पाठौ
www.jainelibrary.org