________________
१९२
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ अपरे वर्णयन्ति-अमुक सचेतनं शुक्रमचेतनमिति, अन्ये ब्रुवते-शुक्रशोणितमचित्त योनिप्रदेशः सचित्त इत्यतो मिश्रा । त्रिविधाऽन्येषामिति । देवनारकगर्भव्युत्क्रान्तितिर्यङ्मनुष्यव्यतिरिक्तानां सम्मू नजन्मनां तिर्यग्मनुष्याणामित्यर्थः । तेषामनियमेन कदाचित् सचित्ता कदाचिदचित्ता कदाचिन्मिश्रेति, यथा गोकृम्यादीनां सचित्ता, काष्ठघुणादीनामचित्ता, केषाश्चित् पूर्वकृतक्षते समुद्भवतां मिश्रेति ॥ अधुना शीतादित्रिकं विभंजते--गर्भजन्मनां देवानां च शीतोष्णा गर्भव्युत्क्रान्तीनां तिर्यग्मनुष्याणां देवानां चोभयस्वभावा स्वभावादेव जायते, देवानां साधारणा सुखबहुलत्वात् क्षेत्रानुभावाच्च, तेजसः उष्णाऽत्यन्तप्रसिद्धैव । त्रिविधाऽन्येषाम् । अन्येषामिति गर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवतेजोव्यतिरिक्तानां सम्मूछेनजन्मतिर्यग्मनुष्यनारकाणाम् , सम्मूछेनजतिर्यग्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णा
- कस्यचिदुभयस्वभावा, स्थानविशेषादिति, नारकाणामाद्ये पृथिवीत्रये नारकादिषु योनिविभाग प्रकृष्टोष्णा, चतुर्थी कचिन्नरके शीता कचिदुष्णा तथा पञ्चम्याम् ।
कथं पुनर्भिन्नाधारोभयस्वभावा स्यात? उच्यते-एकस्यां पृथिव्यामुभयमस्तीति न भिन्नाधारत्वम् ॥ ननु तत्रापि नारकभेदवर्तित्वादनुभयस्वभावत्वमेवेति ? उच्यते-चतुर्थपञ्चमपृथिवीनारकाणामुभयस्वभावेति सामान्याभिधानाददोषः। पाश्चात्ययो
योः प्रकृष्टशीता, न त्वेषां साधारणास्ति दुःखात्मकत्वात् , यद्यप्यविशेपेणोक्तं त्रिविधाऽन्येपामिति तथापि यथासम्भवमत्र विभागः । संवृतादित्रयविभागार्थमाह-नारकैकेन्द्रियदेवानां संवृता । नारकाणां पृथिव्यप्तेजोवायुवनस्पतीनां च सहदेवानां सङ्कुटा, प्रच्छन्नेत्यर्थः। नारकाणां वज्रमयनरककुड्यव्यवस्थितत्वात् सङ्कुटा सती प्रवर्धमानवपुषामतिदुःखा, देवानां पुनः (प्रच्छन्ना अपि )प्रच्छदपटदेवदूष्यान्तरालवर्तिनी समुच्छ्वसच्छरीरभाजां सोच्छ्वासत्वादेव न दुःखा, पृथिव्यादीनां केषांचित् कथञ्चिदवगन्तव्या। गर्भजानां मिश्रा गर्भव्युत्क्रान्तितिर्यग्मनुष्याणां संवृतविवृता सङ्कुटप्रकाशेत्यर्थः। विवृताऽन्येषां नारकैकेन्द्रियदेवगर्भव्युत्क्रान्तितिर्यङ्मनुष्यव्यतिरिक्तानां सम्मूछेनजद्वीन्द्रियादितिर्यङ्मनुष्याणामित्यर्थः । तेषां विवृता, अतिप्रकाशत्वात् ॥ अथ कथं योनिलक्षाणामशीतिश्चतुरुत्तरा प्रतिजाति प्रतिपादिता प्रवचने ? । तद् यथा-पृथिव्यप्तेजोवायूनां प्रत्येकं सप्त सप्त योनिलक्षाः,
. प्रत्येकवनस्पतीनां दश, साधारणानां चतुर्दश, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं जीवयोनिसंख्या प्रत्येकवा
वयानिसल्या द्वे द्वे लक्षे, शेषतिर्यङ्नारकदेवानां प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुष्याणां चतुर्दश, इह तु नव योनयः प्रतिबद्धाः सूत्रे तदेतदतिविप्रकृष्टमन्तरालमुपक्षिपति चेतः संशयदोलायामस्माकमतोवाभिधीयतां समाधिः । अयमुच्यते-नव योनय इति सङ्ग्राहकमेतदासां परिसङ्ख्यानमवसेयम्, विस्तरः प्रतिजाति वक्तव्यः, पृथिवीकायस्य याऽभिहिता योनिः सैव स्वजातिभेदापेक्षया सप्तलक्षपरिमाणा भवति शर्करावालुकादिभेदा
१ 'विभज्यते' 'विभजन्ते ' इति-ग-टी-पाठौ। २ धनुश्चिह्नितो भागः ग-पाठ एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org