________________
१९४ तत्वार्थाधिगमसूत्रम्
। अध्यायः अथेदानीमुपपातजन्मविभक्तये सूत्रमाह
सूत्रम्-नारकदेवानामुपपातः ॥ २-३५ ॥ उपपातजानां भेदाः भा०-नारकाणां देवानां चोपपातो जन्मेति ॥ ३५॥
टी-नारकदेवानामिति गत्यपेक्षः क्रमव्यपदेशः । अपरे अमिदधते अभ्यर्हितत्वादल्पान्तरत्वाच, यदादावाचार्येण देवा न न्यस्तास्तज्ज्ञापयति जन्मनो दुःखहेतुत्वं तच्च प्रकृष्टं किल नारकेष्विति तेषां नारकाणां देवानां च उक्तलक्षण उपपातो जन्म भवति ॥ ३५॥ अधुना सम्मूर्छनजन्मविभक्तुकाम आह
सूत्रम्-शेषाणां सम्मूर्छनम् ॥ २-३६ ॥ भा०-जराय्वण्डपोतजनारकदेवेभ्यः शेषाणां सम्मूर्छनं जन्म । उभया
... वधारणं चात्र भवति । जरायवादीनामेव गर्भः, गर्भ एव समूच्छनजा जावा जरायवादीनाम | नारकदेवानामेवोपपातः, उपपात एव नारक. देवानाम् । शेषाणामेव सम्मर्छनम्, सम्मूच्र्छनमेव शेषाणाम् ॥ ३६॥
टी-शेषाणां सम्मूछनम् । उक्तव्यतिरिक्ताः शेषाः, के पुनरमिहिता जरायवण्डपोतजनारकदेवा एभ्यः शेषाणां जीवानां पृथिवीजलानलानिलतरुद्वित्रिचतुरिन्द्रियगर्मव्युत्क्रान्तिपञ्चेन्द्रियतिर्यङ्मनुष्याणां सम्मूर्छनं जन्माभिहितलक्षणं भवति । शेषग्रहणं लापपार्थमानन्त्यख्यापनार्थं च जन्मभाजां सरिणाऽकारि। अथवा सामर्थ्यलभ्यं जन्म शेषाणामतः शेषमर्थाद् भविष्यति तस्मादुभयोनियमप्रतिपादनायेदं शेषग्रहणमाश्रीयते । योगत्रयमपि चैतजन्मवतां जन्मसङ्करनिवारणार्थमाचार्येण प्राणायीति, अतस्तनिवारणार्थ परस्परावधारणदिदर्शयिषयाऽऽख्याति-उभयावधारण चात्र भवति जरोप्वादीनामेव गर्भः, गर्भ एव जरायवादीनाम् जराय्वादयो गर्भश्च एतदुभयमस्यावधारणमवच्छेदो भवति । शब्द एकशब्दार्थे । उभयावधारणमेव नान्यतरावधारणमनवधारणं वा । प्रथमोपन्यासेन गर्भोऽवधार्यते जराय्वादयोऽनवधृतास्तेऽनु पाश्चात्योपन्यासेज्वच्छिचन्ते-गर्भ एष जरायवादनामिति । गर्भो जरायवादीन् न जहाति, जराय्वादयोऽपि गर्भ न त्यजन्तीति समुदायार्थः । एवमितरत्रापि योगद्वये वाच्यमवहितमानसेन । किं पुनः कारणं येनान्तराले योनिसूत्रमधीतं, न जन्मसूत्रानन्तरमेव जन्मविभागः कृत इति ? । उच्यते-जन्मनो योनेव यकत्तकद्वान्तरमित्यस्यार्थस्य ज्ञापनाय जन्मसूत्रानन्तरमेव योनिसूत्रोपन्यास इति ॥ ३६ ॥
अत्राह-तेषु जन्मसु यथोक्तयोनीनां जीवानां कानि शरीराणि कियन्ति वा किलक्ष. णानि वा भवन्तीति ? । अत्रोच्यते
१'अरायुजादीनाम्' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org