________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २
सूत्रम् - विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥ २—२९ ॥
टी. - विग्रहवती - वक्रा चशब्दादविग्रहा वाऽनन्तरसूत्र निर्दिष्टा गतिर्भवति, संसारिग्रहणानुवृत्तौ पुनः संसारिग्रहणं सिद्धग्रहणादपास्तस्य प्राक्तन संसारिग्रहणस्य पुनः प्रत्युज्जीवनाय अर्थवशाच्च विभक्तिविपरिणामः प्राक् चतुर्भ्य इत्यन्तर्गतिकालप्रकर्षावधारणार्थः, 'एकसमयोऽविग्रहः' (अ० २, सू० ३० ) इति वक्ष्यमाणत्वात् । चतुभ्र्भ्यो विग्रहेभ्य आरात् सविग्रहा भवति, त्रिविग्रहा प्रकर्षत इति, प्राक्शब्दस्य मर्यादाभिधायित्वात् ॥
अधुना भाष्यानुसरणं क्रियते -
विग्रहगतिस
भा० - जात्यन्तरसङ्क्रान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवतीति, उपपातक्षेत्रवशात् तिर्यगूर्ध्वमधश्च प्राक् चतुर्भ्य इति येषां विग्रहवती तेषां विग्रहाः प्राक् चतुभ्र्भ्यो भवन्ति, अविग्रहा एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुस्समयपराश्चतुङ्ख्याः विधा गतयो भवन्ति, परतो न सम्भवन्ति, प्रतिघाताभावाद् विग्रहनिमित्ताभावाच्च । विग्रहो वक्रितम्, विग्रहोऽवग्रहः श्रेण्यन्तरसङ्क्रान्तिरित्यनर्थान्तरम् । पुद्गलानामप्येवमेव । शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणामवशात् । न तु तत्र विग्रहनियम इति ॥ २९ ॥
टी० - जात्यन्तरसङ्क्रान्तावित्यादि । जातिरेकेन्द्रियादिभेदात् पञ्चधा, जातेरन्या जातिर्जात्यन्तरं तस्मिन् सङ्क्रान्तिः - गमनं जात्यन्तरसङ्क्रान्तिस्तस्यां आत्यन्तरसङ्क्रान्तौ सत्यामिति । अथ यदा स्वजातावेवोत्पद्यते तदा कथम् । तदाऽपि ह्येवमेव गतिर्वक्तव्या, जात्यन्तरग्रहणं तु तदा प्रदर्शनमात्रकारि व्याख्येयम् । अथवा जननं - जन्म जातिशब्देनोच्यते, जन्मनो जन्मान्तरावाप्तिर्जात्यन्तरसङ्क्रान्तिरिति न कश्चिदत्र दोषः । संसारः - कर्म तदभिसम्बन्धात संसारिणो जीवस्येति जीवनधर्मभाजः, ऋजुगतौ पूर्वकमेवाऽऽयुर्भवति यावदुपपातदेशं प्राप्नोति, कुटिलगतौ यावद् वक्रं तावत् पूर्वकम्, तत्परतो भविष्यज्जन्म विषयमायुरुदेतीत्येवंविधार्थज्ञापनाय जीवस्येत्यवोचत् । समुच्चयार्थं दर्शयति- वक्रा चावक्रा च उभयी गतिः । किं पुनः कारणमत्र येन कदाचिद वक्रा कदाचिदवक्रेति ? | विग्रहे हेतुः अत आह— उपपातक्षेत्र वशात् उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः- आनुलोम्यमनुकूलता उपपातक्षेत्रवशस्तस्मादुपपातक्षेत्रवशात् कारणात्। तिर्यगूर्वमधश्च प्राक् चतुर्भ्य इति दिक्षु विदिक्षु च व्यावहारिकीषु स म्रियमाणो यावत्यामाकाशश्रेणाववगाढस्तावत्प्रमाणां श्रेणिममुञ्चदूर्ध्वमधश्च प्राक् चतुभ्र्भ्यो विग्रहेभ्यः सविग्रहया गत्यो - पपद्यते, न चायं नियमः प्रतिपत्तव्योऽन्तर्गत्याऽवश्यं विग्रहवत्या भवितव्यम्, किन्तु येषां विग्रहवती तेषां प्राक् चतुभ्यों विग्रहा भवति, येषां जीवानामुपपातक्षेत्रवशाद् विग्रहवती गतिर्भवति तेषां विग्रहत्रययुक्ता प्रकर्षतो द्रष्टव्या । अमुमेवातिक्रान्तमशेषं भाष्यार्थं व्यक्तिमा
१८२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org