________________
सूत्र २८] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८१ अधुना भाष्यमनुगम्यते
भा०–सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशानुश्रेणिर्भवति, विश्रे णिर्न भवतीति गतिनियम इति ॥ २७ ॥
टी.-सर्वा गतिरित्यादि । सर्वेति ऊर्ध्वमस्तिर्यग् वा देशान्तरप्राप्तिः, जीवानांजीवनयुजां संसरणधर्माणामित्यर्थः, पुद्गलानामिति, पूरणाद् गलनाच्च पुद्गलाः-निरुक्तप्राभृतानुसारेण उपचयापचयभाजः, तेषां च, समुचितौ चशब्दः । कथं पुनरत्र पुद्गलग्रहण
__ मतर्कितमेव सहसा विहायसोऽपतदिति ? । उच्यते-जीवाधिकारानुवृत्ती जनता गतिनियमविवक्षायामनुपात्तमपि सूत्रे लापवैषिणा भाष्यकारेणोपात्त
मेकप्रयत्नसाध्यत्वात् , अन्यथा तु गौरवं जायते, अतश्चेदमवश्यमर्थतो वक्तव्यम्-पुद्गलानां चेति, उत्तरत्र सूत्रे जीवग्रहणाद्, अन्यथा जीवाधिकारानुवृत्तौ जीवग्रहणस्य न किंचित् प्रयोजनमुपलभ्यते, तसात् पश्यत्ययमाचार्यों जीवानां पुद्गलानां च गतिनियम अनन्तरसूत्रेऽतः पुद्गलव्यवच्छित्तये जीवग्रहणमिति । आकाशप्रदेशानुश्रेणिर्भवति । जीवपुद्गलावगाहलक्षणमाकाशं तस्य प्रदेशा:-परमाणवोऽमूर्तास्तेषां पङ्किःप्रदीर्घा श्रेणिरसंख्यातप्रदेशा, पुद्गलगमने तु सङ्ख्यातप्रदेशापि, तामेवंविधां श्रेणिमनुपत्य गमनमुपजायते, आकाशप्रदेशानां या श्रेणिस्तामनु जायते गतिर्भवत्ययमर्थः समासस्तु, कथमेतच्चिन्त्यम् आकाशग्रहणं, धर्मादिद्रव्यनिवृत्त्यर्थम्, तदेव हवगाहदानेन व्याप्रियते, न शेषमिति । उक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिर्जीवानाम् , पुद्गलानां तु स्वभावाद्, विश्रेणिर्न भवतीतिगतिर्नियम्यते। पूर्वापरायता वियत्प्रदेशश्रेणयो दक्षिणोचरायताश्वापराः तथा चोर्ध्वमधश्च धर्माधर्मद्रव्यद्वयावधिका यास्तास्वेव गतिसद्भावात् ता एव विमिद्य न कदाचिदपि प्रयान्तीति ॥ २७ ॥
__ अत्राह-सैवस्वभावा गतिः किमृज्वेव गत्वोपरमति, अथ कृत्वापि वकं पुनरुपजायते १ । उच्यते-पुद्गलानामनियमः, सिद्धयतस्त्वेकान्तेनैवाविग्रहेत्यत आह
सूत्रम्-अविग्रहा जीवस्य ॥२-२८॥ गतिनियम:
स्य भा०-सिद्धयमानगतिर्जीवस्य नियतमविग्रहा भवति ॥२८॥ .टी०-एतावद् भाष्यमस्य सूत्रस्य । सेधनशक्तियुक्तः सिद्धयमानः सेधनशीलो वा तस्य गतिर्गमनं पूर्वप्रयोगादिहेतुचतुष्टयजनितम् । जीवस्येति ग्रहणात् पूर्वयोगैर्जीवाः पुद्गलाक्षेति शापितं भवति, सिद्धयमानस्येति सामर्थ्यलब्धमुदचीचरत् मूरिरुत्तरयोगे संसारिग्रहणात् , नियतं सर्वकालमेव सिद्धयताम् , अविग्रहा-ऋज्वी गतिर्भवतीति वेदितव्यमिति ॥२८॥
आह-अन्यस्य सिद्धयमानजीवव्यतिरिक्तस्य कथमिति ? । उच्यते१'सूत्रोकः' इति क-व-पाठः ।
सिध्यमानस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org