________________
१८० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ बज्झतित्ति ? हंता गोयमा!" कार्मणयोगकाले चास्ति चलनं, तत् कथं बन्धादिलक्षणोपभोगप्रतिषेधः १ । उच्यते-भवस्थमाश्रित्य भगवता सूत्रं प्राणायि, ज्ञानावरणाद्यास्त्रवाणां तदैव सद्भावात् , अपिच अल्पः कालः समयद्वयं कस्तत्रोपभोगेनाभिसम्बन्ध इति, स्याद वा काययोगप्रत्ययस्तत्र बन्धः स तु न विवक्ष्यते भाष्यकारेण, ज्ञानावरणाद्यास्रवविशेषाहितबन्धनिराकारसूत्रं व्याख्यास्यत इति, एवं तानुपूर्वीनामकर्मोपभोगस्तदैव नान्यदा जन्तोरन्यत्र केवलिद्विचरमसमयात्, ज्ञानावरणाद्युपभोगश्च यथासम्भवमतः कथमुपभोगप्रतिषेध इति ?। उच्यते-पुनः पुनर्विरुवन्मुधा कदर्थयसि त्वमस्मान् , तत्रैव सूत्रे निश्चयिष्यते एतद् अभिव्यक्तरूपा हिंसादयो न तत्र सन्ति, न च तदनुरूपफलोपभोग इति व्यक्तिमावेश्य चेतसि प्राणैषीत् सूत्रमाचार्यस्तस्मादवस्थितमिदम्-विग्रहगतौ कार्मण एव योगः, न शेष इति ॥ २६ ॥ ___ अथ येषां जीवानां गतिर्भवान्तरप्रापिणी सा किं यथाकथंचिद् भवति, आहोस्विदस्ति कश्चिनियमः १ । अस्तीत्युच्यते
सूत्रम्-अनुश्रेणिर्गतिः॥ २-२७॥ टी०--अथवा किं पुनरयमात्मा भवान्तरप्राप्तौ वक्रां गति प्रतिपद्यते गतिनियमात कुतश्चिदुताहो यथाकथंचिदिति ? । गतिनियमात् इत्याह- कः पुनरसौ गतिनियमः ? उच्यते-अनुश्रेणिर्गतिः। श्रेणिः-आकाशप्रदेशपङ्किः स्वशरीरावगाहप्रमाणा, प्रदेशाश्वामूतोः क्षेत्रपरमाणवोऽत्यन्तसूक्ष्माः नैरन्तर्यभाजः, सा चासङ्ख्येयप्रदेशा जीवगतिविवक्षायाम् , अन्यत्र मौक्तिकहारलतेव एकैकाकाशप्रदेशरचनाहितस्वरूपापि ग्राह्या, परमाणोस्तावत्यामेव व्यवस्थानात् , घणुकादेस्तावत्यामधिकायां चेत्येवमनन्तप्रदेशिकस्कन्धपर्यवसानं पुद्गलद्रव्यमुपयुज्य वाच्यम् । तत्रानुश्रेणीति । श्रेणिमनु अनुश्रेणि श्रेण्यामनुसारिणी गतिरितियावत् , अनुगङ्गं वाराणसी यथा। गमनं-गतिः-देशान्तरप्राप्तिः, सा चाकाशश्रेण्यभेदवर्तिनी स्वयमेव समासादितगतिपरिणतेर्जन्तोर्गतिहेतुसकललोकव्यापिधर्मद्रव्यापेक्षा प्रादुरस्ति, भवान्तरसङ्क्रान्त्यभिमुखो जीवो मन्दक्रियावत्त्वात् कर्मणो यानेवाकाशप्रदेशानवष्टभ्य शरीरवियोगं करोति तानेवाभिन्दन् देशान्तरं गच्छत्यूर्ध्वमधस्तिर्यग् वा, विश्रेणिगत्यभावाद्,
धर्मास्तिकायाभावाच्च परतो लोकपर्यन्ते एव व्यवतिष्ठते, लोकनिष्कुटोगतरनुशाणता पपातक्षेत्रवशाच्च भवान्तरप्राप्ताववश्यमेव धर्माज्जीवो वक्रां गतिं प्रतिपद्यते,
पुद्गलानामा५ परप्रयोगनिरपेक्षाणां स्वाभाविकी गतिरनुश्रेणिर्भवति यथाऽणोः प्राच्यात् लोकान्तात् प्रतीच्यं लोकपर्यन्तमेकेन समयेन प्राप्तिरिति प्रवचनोपदेशः, परप्रयोगापेक्षया त्वन्यथाऽपि गतिरस्तीति ॥
बध्यते ? हन्त गौतम ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org