________________
१८३
सूत्र २९] ... स्वोपज्ञभाष्य टीकालङ्कृतम् पादयन्नाह-अविप्रहा इत्यादि । यस्योपपातक्षेत्रं समश्रेणिव्यवस्थितमुत्पित्सोः प्राणिनः स ऋज्वायतां श्रेणिमनुपत्योत्पद्यते, तत्रैकेन समयेन वक्रमकुर्वाणः, कदाचित तदेवोपपातक्षेत्रं विशेणिस्थं भवति तदैकविग्रहा द्विविग्रहा त्रिविग्रहा चेति तिस्रो गतयो निष्पद्यन्ते, आकाशप्रदेशश्रेणीः लिखित्वा प्रत्यक्षीक्रियन्ते । तथा चागमः-अपंजत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरमंते समोहते समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उपववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! त्रिसमयीं यावत्
एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण उववज्जेज्जा, से
र केणटेणं भंते! एवं बुच्चइ ? एवं खलु गोयमा! मए सत्त सेढीओ विग्रहः
पण्णत्ताओ, तंजहा-उज्जुआयता सेढी एगओवंका दुहओवंका एगओखहा दुहओखहा चकवाला अद्धचकवाला (भग० श०२५, उ०३, सू०७३०), उज्जुआयताए सेढीए उववज्जमाणे एगसमएणं निग्गहेणं उववजेजा, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा, दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उवबजेजा, से तेणटेणं गोयमा! एवं वुच्चइ"। एकसमयेन वा विग्रहेणोत्पद्यते द्विसमयेन वा त्रिसमयेन वेति, कः पुनः शब्दार्थ इति सन्दिहानः प्रश्नयति, कुतः पुनः सन्देहः ? आचार्येण परिभाषितम्-विग्रहो वक्रितं विग्रहोऽवग्रहः श्रेण्यन्तरसङ्क्रान्तिरिति, अत्रायमर्थो न सङ्गच्छते, यस्मात् न होकसमयायां गतौ वक्रमस्ति, अपरे व्याचक्षते-विग्रहाय गतिविग्रहगतिः विगृह्य वा गतिविग्रहगतिः, तत्र विग्रहायेति आगामिजन्मशरीरार्था गतिरिति प्रतिपादयन्ति, विगृह्य वा गतिरिति वक्रं कृत्वा या गतिः साऽपि विग्रहगतिः,
ऋज्वी प्रथमविकल्पेन सगृहीता पश्चिमविकल्पेन वक्रेति, उभय्यामपि विग्रहगतिহাহাগ।
विकल्पनायां सूत्राों न घटते, विग्रहाथों या गतिस्तस्यामेष्यजन्मनि
शरीरेण सम्बन्धः, न गमनपरिणामकाल एव, तत्र कः सम्बन्धः एकसमयेन वा विग्रहेणोत्पद्यते, यदा पुनर्विगृह्य गतिः, तदा सुतरामनुपपन्नम्, न ह्येकसमयगतौ वक्रस्य सम्भवः, भाष्यं च विगृह्यगतिपक्ष एव गमितं भवति विग्रहो वक्रितमित्यादि, नेतरत्र, तस्मादेवं सूत्रं व्याख्येयम्-एकसमयेन वा विग्रहेणोत्पद्यतेति, विग्रहशब्दोऽत्रावच्छेदवचनो न वक्रताभिधायीत्यतोऽयमर्थः-एकसमयेन वाऽवच्छेदेन विरामेण । कस्यावच्छेदेनेति चेत् ?
१ अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्त ! अस्या रत्नप्रभायाः पृथ्व्याः पूर्वस्मिन् चरमान्ते समवहत समवहत्य यो भव्योऽस्या रत्नप्रभायाः पृथिव्याः पश्चिमे वरमान्ते अपर्याप्तसूक्ष्मपृथ्वीकायिकतयोत्पत्तुं स भदन्त ! कतिसामयिकेन विग्रहेणोत्पद्येत ? गौतम! एकसामयिकेन वा द्विसामयिकेन वा त्रिसामयिकेन वा विग्रहेणोत्पद्यते, तत् केनार्थेन भदन्तैवमुच्यते? गौतम ! मया सप्त श्रेणयः प्रज्ञप्ताः, तद्यथा-ऋज्वायता श्रेणी एकतोवका द्विधावका एकतःखा द्विधाखा चक्रवाला अर्धचक्रवाला, ऋज्वायलया श्रेण्योत्पद्यमान एकसमयेन विग्रहेण उत्पद्यते एकवक्रया घेण्योत्पद्यमानो द्विसामयिकेन विप्रहेणोत्पद्यते, द्विवक्रया श्रेण्योत्पद्यमानस्त्रिसामयिकेन विग्रहेणोत्पद्यते, तदेतेनार्थेन गौतम! एवमुच्यते।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org