SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १७७ स्वरूपम् सूत्र २५] स्वोपज्ञभाष्य-टीकालङ्कृतम् घ्रादयः । केचिदग्रहणाद् गर्भव्युत्क्रान्तय एव परिगृह्यन्ते, न सम्मूर्च्छनजन्मभाजः । ईहापोहयुक्ता इति । सामान्यार्थग्रहणानन्तरभाविनी सदर्थमीमांसा ईहा-किमयं शङ्खध्वनिरुताहो शृङ्गध्वनिरिति, मधुरादिगुणयोगादयं शङ्खस्यैव ध्वनिः, न शृङ्गस्येत्यन्वयव्यतिरेकवद् विज्ञानमपोह उच्यते, ईहापोहाभ्यां युक्ता ईहापोहयुक्ता-गुणदोषविचारणात्मिका सम्प्रधारणसंज्ञा, तां प्रति संज्ञिनोऽत्र संज्ञिनो विवक्षिताः, गुणाश्च दोषाश्च गुणदोषाः, स्वार्थपुष्टिहेतवो गुणाः, तदपचयहेतवो दोषाः, तेषां विचारणम्-आलोचनं-कथं गुणावाप्तिर्दोषपरिहारश्चेति तदेवात्मा-खरूपं यस्याः सम्प्रधारणसंज्ञायाः सा गुणदोषविचारणात्मिका सम्प्रधारणसंज्ञा, तामेवंविधां संज्ञामभिमुखीकृत्य संज्ञिनो वक्तुमभिप्रेताः । अन्यथा हीत्यादि । यदि प्रतिविशिष्टा संज्ञा नाङ्गीक्रियते ततः सर्व एव जन्तवः पृथिव्यादिभेदाः ___ समनस्काः स्युः, आहारादिसंज्ञाभिः संज्ञिन इतिकृत्वा, तस्माद् विशिष्टआहारादिसंज्ञा • संज्ञाभाजः संज्ञिनः समनस्का भवन्ति । तत्रासद्वेदनीयोदयादोजलोमप्र क्षेपभेदेनाहाराभिलाषपूर्वकं विशिष्टपुद्गलग्रहणमाहारसंज्ञा, संज्ञा नाम विज्ञानम्,तद्विषयमाहारमभ्यवहरामीति मोहनीयोदयात्, साध्वसलक्षणा भयसंज्ञा-भयपरिज्ञानं बिभेमीति,: पुरुषादिवेदोदयाद् दिव्यौदारिकशरीरसम्बन्धाभिलाषासेवनं मैथुनसंज्ञा, ततोऽन्यथा वाऽपि मृच्छोलक्षणा परिग्रहसंज्ञा, भावतोऽभिष्वङ्गो मृच्छो, तस्मात् सिद्धं प्रणिधानविशेषाहितसंस्कारविज्ञानपाटवादरविजृम्भितपरिणामाः संज्ञिनः ॥ ननु च सम्प्रधारणसंज्ञा मनोलक्षणा, मनश्च सम्प्रधारणसंज्ञारूपम्, ततश्चायुक्तं लक्षणमन्योन्यलक्षणत्वाद् हस्तकरवत् संज्ञिनः समनस्का इति । उच्यते-लक्ष्यपदार्थो द्विविधेन लक्षणेन लक्ष्यते स्वसिद्धेन परसिद्धेन वा, स्वसिद्धेनाग्निरुष्णत्वेन, परसिद्धनाभिनववारिवाहपटलस्निग्धतरवनखण्डबलाकाकमलसौरभादिना महान् जलाशयः, तत्रेहापि लक्ष्याः समनस्काः प्रसिद्धेन गुणदोषादानपरिहाररूपेण बहिवेर्तिना प्रत्यक्षप्रमाणसमधिगम्येन सम्प्रधारणसंज्ञाफलेन लिङ्गभूतेन संज्ञित्वेनानु _ मीयन्तेऽन्तःकरणवत्तया विद्वद्भिः, न चाग्नेलेक्षणमुष्णता तदभेदवर्तिन्यपि सम्प्रधारणेन सम + यथा तथा सम्प्रधारणसंज्ञाऽपि बहिरतिस्फुटहिताहितप्राप्तिपरिहाररूप फला लिङ्गिनो भेदेनापि वर्तमाना लक्षणमेव । अथवा पर्यायकथनेनेदं व्याख्यानं समनस्कानाम् , के समनस्का इति पृष्टे संज्ञिनः समनस्का इत्येकोऽर्थः, यथाऽन्यत्र 'मतिस्मृतिसंज्ञाचिन्ताभिनिबोध इत्यनान्तरं ' (अ० १, सू० १३), 'सम्यग्योगनिग्रहो गुप्तिः' ( अ०९, सू० ४ ) इति । इहापि गुणदोषविचारणाफलयोगात् प्रसिद्धतरः संज्ञिशब्दस्तेन प्रत्यायनमप्रसिद्धस्य समनस्कशब्दार्थस्य । एवंच हस्तकरवदित्यप्युपपन्नं भवति, कस्यचिदन्यतरप्रसिद्धावन्यतरो व्याख्यायते-कः करः ? हस्त इति, विवक्षावशाद् वा कदाचित् कारणेन तत्कार्यमनुमीयते जातुचित् कार्येण कारणम् , अत्र च मनः कारणं सम्प्रधारणसंज्ञा कार्यतया लक्ष्यते इति, कदाचिद् वा सैव मनसा लक्ष्यत इत्यन्योन्यलक्षणताऽपि न दोषायेति ॥ २५ ॥ ३ नस्कतालक्षणम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy