SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ संसरणस्य अन्ततिविचार १७८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः २ उक्तः प्रतिविशिष्टानामेव भवस्थानां मनोयोगनियमः । अथ येऽन्तर्गतौ वर्तन्ते प्राणिनस्तेषां कतमो योगः १ । उच्यते-- सूत्रम्--विग्रहगतौ कर्मयोगः ॥२-२६ ॥ टी-अथवा संसारिणोऽधिकृतास्ते च संसरणधर्माणो भवाद् भवान्तरप्राप्तेः, तच्च तेषां संसरणं द्विधा-देशान्तरप्राप्तिलक्षणं भावान्तरप्राप्तिलक्षणं च, तत्र T H ये पूवेशरीरपरित्यागाद् देशान्तरं गत्वा जन्म लभन्ते तेषां देशा - न्तरप्राप्तिलक्षणम् , ये पुनः · स्वशरीर एवोत्पद्यन्ते मृताः सन्तः कृम्यादिभावेन तेषां भावान्तरप्राप्तिलक्षणम्, एतदुभयमपि न चेष्टालक्षणयोगमन्तरेण संसरणमस्ति, त्यक्तपूर्वकशरीरस्य जन्तोर्गतेरभावाद् गतिपूर्विका चोभयप्राप्तिरिति ? उच्यते-गतिहेतुसद्भावान गमनप्रतिषेधः, सा गतिरन्तरालवर्तिनी द्विधा-ऋज्वी . वक्रा च, ऋज्वी तावत् पूर्वशरीरयोगोत्थापितप्रयत्नविशेषादेव गतिरितावचा प्यते धनुाविमोक्षाहितसंस्कारेषुगमनवत् , तस्यां च पूर्वकः स एव योगो वाच्यः, अतोऽन्यस्यानु विग्रहगतौ कर्मयोगः, विग्रहो वक्रमुच्यते, विग्रहेण युक्ता गतिविग्रहगतिः अश्वरथन्यायेन, विग्रहप्रधाना वा गतिः विग्रहगतिः शाकपार्थिवादिवत्, तस्यां विग्रहंगतो कर्माष्टकेनैव योगः, न शेषौदारिकादिकायवाङ्मनोव्यापार इति, कर्मणो योगः कर्मयोगः कार्मणशरीरकृतैव चेष्टेत्यर्थः । एतदेव व्यक्तं भाष्येण दर्शयति भा०-विग्रहगतिसमापन्नस्य जीवस्य कर्मकृत एव योगो भवति । कर्मशरीरयोग इत्यर्थः । अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इति ॥२६॥ ____टी०-विग्रहगतीत्यादि । समासादितवक्रगतेजन्तोः कर्माष्टकं कर्मशब्देनोच्यते । कर्मकृत एव योगो भवतीत्यवधारणेन व्युदासमावेदयति शेषयोगानाम्,पुनः स्पष्टतरमसन्देहार्थ विवृणोति-कर्मशरीरयोग इत्यर्थः । कर्मैव शरीरं कर्मशरीरं कार्मणमिति स्फुटयति, स्वार्थे च व्युत्पत्तिमावेदयति कर्मैव कार्मणम्, न पुनर्जातभवाद्यर्थसम्बन्धोऽत्र कश्चित् समस्ति । अयं च नियमोऽन्तर्गतेरेव क्रियते न कार्मणस्येति ख्यापयन्नाह–अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इति । अन्तर्गतेरन्यत्र यथाभिहित आगमे कायादियोगो भवति, तुशब्दो गत्यन्तरविशेषप्रदर्शनपरतयोक्तः । तद्यथा-नारकगर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवानां त्रयोऽपि योगाः, ... सम्मूर्छनजन्मभाजां तिर्यग्मनुष्याणां कायवाग्योगावेव । अथवा भाग यथोक्त इति । येन प्रकारेणोक्तः कायादियोगः पञ्चदशभेदः स तथा समायोजनीयो गत्यन्तरभेदेष्विति सूचयति, तत्र मनोयोगश्चतुर्धा-सत्यः, असत्यः, सत्यासत्यः, असत्यामृष इति, एवं वाग्योगेऽपि, काययोगः सप्तभेदः-औदारिकः, औदारिकमिश्रा, वैक्रियः, वैक्रियमिश्रः, आहारकः, आहारकमिश्रः, कार्मणश्चेति ॥ ननु च 'अनादिसम्बन्धे च' १वक्रगतौ चेत्यधिकम् । २ ' इत्यर्थः' इति घ-पाठः । योगविभाग Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy