________________
१७६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ मात्रेण वारूपवानिति व्यपदिश्यते, यथा च प्रभूतद्रविणो धनवान् , प्रशस्तरूपः स्वरूपवानुच्यते तथा महत्या शोभनया चेह संज्ञया संज्ञिनो ग्रहीष्यन्ते, भूमप्रशंसातिशयनादिषु मत्वर्थीयविधानात् , कालहेतुदृष्टिवादोपदेशसंज्ञानां च मध्ये कालिक्येव परिगृह्यते नेतरे, निरूपितमिदं नन्द्यां सूत्रव्याख्याने-हेतुकालदृष्टिवादोपदेशक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापितेत्येवमाक्षिप्तेऽभिहितमुत्तरं (हारिभद्रीये )-संश्यसंज्ञीति सर्वत्र श्रुते कालिक्याः संज्ञायाः प्रायः संव्यवहारः क्रियते, अतः क्रमविशुद्धिमनादृत्य सूत्रमुपनिबद्धम् , अतस्तां कालिकी संज्ञामधिकृत्य भाष्यकृद् व्याख्यानयति-सम्प्रधारणसंज्ञायां ये वर्तन्ते जीवास्ते समनस्का भवन्ति । सम्प्रधारणमालोचनं येन सुदीर्घमपि कालमनुस्मरति भूतमागामिनं चानुचिन्तयति कथं नु कर्तव्यं किं वा तत्रानुष्ठेयमत एव दीर्घकालिकीत्युक्ताऽऽगमे पूर्वपदलोपात् । तच्च सम्प्रधारणमेवंरूपं कस्य सम्भवति ? योऽनन्तानन्तान्
____ मनोयोग्यान् स्कन्धान् आदाय मन्यते, तल्लब्धिसम्पन्नो मनोविज्ञा. उपलब्धिनानात्वम् म
त्वम् नावरणक्षयोपशमादिसमेतः, यथा च रूपोपलब्धिश्चक्षुष्मतः प्रदीपादिप्रकाशपृष्ठेन तद्वत् क्षयोपशमलब्धिमतो मनोद्रव्यप्रकाशपृष्ठेन मनःषष्ठैरिन्द्रियैरर्थोपलब्धिः, यथा वाऽविशुद्धचक्षुषो मन्दमन्दप्रकाशे रूपोपलब्धिरेवमसंज्ञिनः पश्चेन्द्रियसम्मूछैनजस्यात्यल्पमनोद्रव्यग्रहणशक्तरर्थोपलब्धिः, यथा चेह मूच्छितादीनामव्यक्तं सर्वविषयविज्ञानमेवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणाम् , अतः शुद्धतरं शुद्धतमं च द्वीन्द्रियादीनामा पञ्चेन्द्रियसम्मूर्च्छनजेभ्यः, ततस्तत्संज्ञिनामतिप्रकृष्टतरमिति ? । आह-कुतः पुनश्चैतन्यसमानतायामात्मनो यदिदमुपलब्धिनानात्वम् ? उच्यते-सामर्थ्य भेदात् , स च क्षयोपशमानन्त्याद यथा चेह छेदनत्वे तुल्ये चक्रवर्तिनश्चक्रस्य यत् सामर्थ्य तत् क्रमशो हीयमानसामर्थ्यानां न शरपत्रादीनामस्ति, एवमेव हि मनोविषयाणां संज्ञिनां चैतन्ये सति या पटुता सम्प्रधारणायां नासौ क्रमशो हीयमानानामसंज्ञिनामिति । एवं तावद् विशिष्टसंज्ञाभाज एव संज्ञिन इति प्रतिपादितम् ॥ इदानीं नामग्राहमाचष्टे तान् संहिता-सर्वे नारकदेवा इत्यादिना । पृथिवीसप्तकवर्तिनो नारकाः, भवनवनचरज्योतिषिकवैश्च देवाः, गर्भेण व्युत्क्रान्तिर्येषां मनुष्याणां ते गर्भव्युत्क्रान्तयः, उपरिष्टात् (अ०२,सू०३२) त्रिविधं जन्म वक्ष्यते, तत्र मातृपितृसंयोगाजीवस्योत्पादो गर्भजन्मोच्यते, तेन गर्भजन्मना विविधमुत्क्रमणंउद्गमनं-प्रादुर्भावो येषां कदाचिच्छिरसा कदाचित् पादाभ्यां मातुरुदरानिःसरणमित्येवंविधमनुष्याणां च समनस्कत्वम् । गर्भव्युत्क्रान्तिग्रहणात् सम्मूच्छेनजन्ममनुष्यव्यावृत्तिः । तिर्यग्योनिजास्त्वित्यादि । पञ्चेन्द्रियतिर्यग्योनिजाः गो-महिषी-अजाविक-करि केसरि-व्या
१ तथा च' इति ग-पाठः । २ ' मनोविषयिणां संज्ञानाम् ' इति ग-टी-पाठः । ३ ' तत्संज्ञिनः' इति क-ख-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org