________________
१६८ तत्त्वार्थाधिगमसूत्रम्
अध्यायः २ सत्यां निवृत्तावुपकरणोपयोगी भवतः, सत्यां च लब्धौ निर्वृत्त्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावेऽपि विषयालोचनं न भवति ॥ १९॥ ____टी०-उपयोगः स्पर्शादिषु । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोगो गृह्यते स्पर्शनेन्द्रियादिनिमित्तो नावध्याधुपयोगः । अमुमेवार्थ स्पष्टयन भाष्यकृदाहस्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । स्पर्शादिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भनमिति, अनेन शेषज्ञानव्युदासमादर्शयति मतिज्ञानोपयोग एव लब्धिनिर्वृत्युपकरणापेक्षः प्रवर्तते न शेष इति । अत्रोपयोगसामान्य"त्यपढ्तावधानश्वोदयति-स्पर्शादिविषयो य उपयोगपरिसमाप्तिव्यापार इत्युक्तम् । एतच्च परमाणुद्वयणुकादिष्वपि दृष्टम् , परमाणुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोऽप्युपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकारः-उक्तमेतदुपयोगो लक्षणमिति । अथवा भाष्यकारः स्वयमेवोपयोगविशेषव्याख्यामातितनिषुराह-उक्तमेतदित्यादि। अभिहितमेतदुपयोगश्चैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणं कः परमाण्वादिष्वा प्रसङ्गोत्यन्तासम्बन्ध एव । तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेण
उपयोग इत्यादि । उपयोगस्तु द्विविधा चेतना-संविज्ञानलक्षणा उपयोगेन्द्रियस्व.
रूपम अनुभवनलक्षणा च, तत्र घटाद्युपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनानुभवनलक्षणा एतदुभयमुपयोगग्रहणाद् गृह्यते । प्रणिधानमवहितमनस्कत्वम् , एतदुत्कीर्तयति-स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षश्च नावध्याधुपयोगस्तथेति आयोग इति । स्वविषयमर्यादया स्पर्शादिभेदनि सो ज्ञानोदयः स्पर्शनेन्द्रियादिजन्माभिधीयते तद्भाव इति । उपयोगलाञ्छनो जन्तुस्तच्छब्देनामृश्यते तस्य भावः स्पर्शनादिद्वारजन्मज्ञानमात्मनो भूतिरुद्भव इतियावत् , परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्मपरिणतिरूपत्वादित्यर्थः ॥ सम्प्रति प्रवृत्तौ क्रमनियममापादयन्नाह-एषामित्यादि भाष्यम् । एषामिति ।
- व्याख्यातस्वरूपाणां नित्त्युपकरणलब्ध्युपयोगेन्द्रियाणामयं प्रवृत्ति
क्रमो यदुत निवृत्तिः प्राक् तस्यां सत्यामुपकरणमुपयोगश्च भवति निवृत्त्याश्रयत्वादुपकरणस्य तद्द्वारजन्मत्वाञ्चोपयोगस्य। एतच्च निर्वृत्त्यादित्रयं लब्धीन्द्रियपूर्वकं दर्शयति-श्रोत्रादिक्षयोपशमलब्धौ सत्यां निर्वृत्तिः शष्कुल्यादिका भवति, यस्य तु लब्धिर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽव्यवा निवर्तन्ते तस्माल्लब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादिविषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नुवते । एकेनाप्यवयवेन विकलमिन्द्रियं नोच्यते, न च स्वविषयग्रहणसमर्थ भवति, अमुमर्थ भाष्येण दर्शयति-निवृत्त्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते निवृत्युपकरणलब्ध्युपयोगानामन्यतमाभावे एकेनाप्यङ्गेन विकले सति समुदाये न जातुचित् शब्दादिविषयस्वरूपावबोधो
निवृत्त्यादीनां क्रमः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org