________________
एकोपयो
सूत्र २०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१६९ भवत्यात्मनः, विकलकरणत्वात् । अत्र च यदा शब्दोपयोगवृत्तिरात्मा "ता भवति तदा न शेषकरणव्यापारः स्वल्पोऽप्यन्यत्र कान्तद्विष्टाभ्यस्तविषयकलापात् , अर्थान्तरोपयोगे हि प्राच्यमुपयोगबलमात्रियते कर्मणा, शङ्खशब्दोपयुक्तस्य शृङ्गशब्दविज्ञानमस्तमिततन्निर्भासं भवति, अतः क्रमेणोपयोग एकस्मिन्नपीन्द्रिविषये, किमुत बहुविधविशेषभाजीन्द्रियान्तरे, तस्मादेकेनेन्द्रियेण सर्वात्मनोपयुक्तः सर्वः प्राण्युपयोगं प्रत्येकेन्द्रियो भवति । एवं शेषविषयपरिच्छेदपरिणतावपि वाच्यम् , ये पुनरत्यन्तकान्तद्विष्टाभ्यस्ता विषयास्तानन्यमनस्कोऽपि विस्मतुं चेच्छन् न विस्मरति, अतः सहैवोपयोगो भवति उपयोगान्तरेणेति । एतच्चोपयोगद्वयमेकस्मिन् काले पारमर्षप्रवचनाभ्यासाहितनैपुणाः न बाढमभ्युपयन्ति, यत आर्यगङ्गनिह्नवकैयुगपत् क्रियाद्वयोपयोगः प्रपश्चतः प्रतिषिद्धो न चागमान्तरे कचिदुपनिवद्धः । क्रमस्तु तत्रोत्पलदलशतभेदवदतिशुष्कशष्कुलीभक्षणोपलब्धिवद् वातिसूक्ष्मत्वात् समयादिकृतो दुर्लक्षश्छद्मस्थेनेति । 'उपयोगः स्पर्शादिषु' इति केचिद् भाषन्ते सूत्रमिदं न भवति, भाष्यमेव सूत्रीकृत्य केचिदधीयते, तदेतदयुक्तम् , अविगानेन सूत्रमध्येऽध्ययनात् प्रतिविशिष्टाचार्यसम्प्रदायगम्यत्वाद् विवरणाच निश्चीयते सूत्रतेति ॥ १९ ॥
भा०–अत्राह-उक्तं भवता पश्चेन्द्रियाणि ( अ० २, सू० १५) इति । तत् कानि तानीन्द्रियाणीति? । उच्यते॥
टी-अत्राह उक्तमित्यादि सम्बन्धप्रदर्शनपरमिदं भाष्यम् , अत्रावसरे शिष्य आह-अभिहितमेतद् भवता पश्चैवेन्द्रियाणि भवन्ति सङ्ख्यातः तत् कानि पुनस्तानि मामतः १ उच्यते-स्वरूपतोऽवधृत्य नामविषयं प्रश्नमकृतेत्यतोऽत्र प्रश्ने अभिधीयते प्रतिवचनम् ॥
सूत्रम्-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥२-२० ॥ इन्द्रियनामानि
र भा०-स्पर्शनं, रसनं, घ्राणं, चक्षुः, श्रोत्रमित्येतानि
- पञ्चेन्द्रियाणि ॥ २० ॥ टी-स्पर्शनेत्यादि सूत्रम् । स्पृश्यतेऽनेनेति स्पर्शनम् , सर्वाणि करणकारकसाधनान्यात्मनः कर्तुरभेदेन वर्तमानान्यतिशयवत् प्रयोजनप्रधानं प्रत्याहितपाटवानि ज्ञाने निर्व] करणानि कथञ्चिज्जीवादनन्यत्वाद् गमने प्रसाध्ये पादवद् देवदत्तो मांसपिण्डः पादाभ्यां गच्छति ग्राममित्यपराणि भेदभाञ्जि करणान्यस्य कर्तुरसिपरशुवास्यादीन्येवं भिन्नाभिप्रकरणकलापग्रामणीरयमात्मा निरवशेषक्रियानुष्ठानशक्तियुक्तः कर्ता, अन्यथोभयकरणग्रामव्युदासानुगृहीतस्तृणमपि कुटिलयितुमयोग्यः स्यात् किमुतैहिकामुष्मिकानेककार्यविषयव्यापारानुष्ठानमिति, यथैव च प्रतिविशिष्टज्ञाननिवृत्त्याधाने करणत्वमिन्द्रियाणाम् , एवं वीर्यवले
१ 'दुर्लक्षच्छद्मस्थोनेति उपः' इति क-ख-पुस्तकयोर्मध्ये भत्रायं भाग उपलब्धः परं त्वनुपयुक्तः प्रामादिक
सभातीति टिप्पण्यां निवेशितः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org