________________
सूत्रं १९]
स्वीपज्ञभाष्य-टीकालङ्कृतम् मकर्म च गतिजात्यादिनामकर्म तेन जनिता-निर्वर्तिता, मनुष्यगतिनामोदयान्मनुष्यस्तथा पञ्चेन्द्रियजातिनामोदयात् पञ्चेन्द्रिय इत्यतो मनुष्यत्वपञ्चेन्द्रियत्वादिलामे प्रतिस्वं तदा वरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामकर्मकारणत्वानिर्दिष्टमाचार्येण । आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धेर्नामान्तःपाति तत् सकलमादीयते । अपरे त्वायुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य, एवं विदूरवर्ति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोति-तदावरणीयकर्मक्षयोपशमजनिता चेति । तस्याः खलु रूपादिग्रहणपरिणतेरावरणीयमावारकमाच्छादकं, बाहुलकात् कर्तरि व्युत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म मतिज्ञानदर्शनावरणकरेंत्यर्थः,तस्योभयस्य क्षयोपशमोऽभिहितलक्षणस्तज्जनिता च तनिष्पादिता चेत्यर्थः।चशब्दः पूर्वकं कारणं समुचिनोति ॥ ननु च क्षयोपशम एव लब्धिरुक्ता तेन जनितान्या का भवेल्लब्धिः? । उच्यते-मतिज्ञानदर्शनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावः क्षायोपशमिकः सोऽत्र लब्धिरुच्यते, कथं कृत्वोक्तं प्राक् क्षयोपशमो लब्धिरिति कारणे कार्योपचारमालम्ब्य नड्वलोदकं पादरोगवदित्यभिहितमतो न दोषाय । अन्ये पुनराहुः-अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविषयोपभोगज्ञानशक्तिलब्धिरुच्यते । पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया भाष्यकृत् प्रतनुते ग्रन्थम्-इन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवतीति । इन्द्रियाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिनिर्माणाङ्गोपाङ्गादीनि यैर्विना तानि न निष्पद्यन्ते तदुदयेन-तद्विपाकेन निवृत्ता-जनितात्मनो लब्धिरुद्भवति, स्वच्छे हि दर्पणतले प्रतिबिम्बोदयो भवति, न मलीमसे, तथा निर्माणाङ्गोपाङ्गादिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलव्धेरतुलं बलमुपयच्छन्ति, कारणतां बिभ्रतीति । सैषा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति । तद्यथा-स्पर्शनेन्द्रियलब्धिरित्यादि भाष्यम् । यथा तत् पञ्चविधत्वं तस्यास्तथा दर्श्यतेस्पृष्टिः-स्पर्शनं, स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियम् , एतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तमुपयोगात्मनेतियावत् । एवं जिहेन्द्रियादिलब्धयोऽपि वाच्याः । इतिशब्दो लब्धेरियत्तामावेदयति ॥ १८ ॥
उक्ता लब्धिः, अधुनोपयोग उच्यते-यदि लब्धिनिर्वृत्त्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो निवृत्याद्यपेक्षाभावात् । एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव विशेषो वाच्यः ? । उच्यते-न खुल सर्व उपयोगो लब्धिनिर्वृत्त्युपरकरणेन्द्रियकृतः, किं तार्ह स एवैकस्त्रितयनिमित्त इत्यत आह
सूत्र–उपयोगः स्पर्शादिषु ॥ २-१९ ॥ भा०-स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । उक्तमेतदुपयोगो लक्षणम् (अ० २, सू०८)। उपयोगः प्रणिधानम् । आयोगस्तद्भावः परिणाम इत्यर्थः । एषांच
१'चायुष्कम्' इति ख-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org