________________
सूत्रं १५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१६१ टी-तेजोवायू इति । अङ्गारार्चिरलातशुद्धाग्न्यादिभेदं बादरं तेजः, बादरस्य तु मनुष्यक्षेत्रमेव स्थानम्, न ततः परमस्ति, सूक्ष्मं सर्वलोकपर्यापन्नम्, शरीरसंस्थानं सूचीकलापाकृति, शेषपर्याप्तकादिभेदः पूर्वकैः समानः, प्रमाणतोऽसङ्ख्येयजीवः । प्राच्यप्रतीच्याद्युत्कलिकामण्डलिकादिभेदो वायुः, बादरस्य स्थानं घनवाततनुवाततद्वलयाधोलोकपातालभवनादि, सूक्ष्मः सर्वलोकपर्यापन्नः, प्रमाणतोऽसङ्ख्येयजीवः, पूर्वकैः पर्यासकादिभेदः समानः, शरीरसंस्थानं तु पताकाकृति द्रष्टव्यम् ॥ द्वे इन्द्रिये येषां ते द्वीन्द्रियाः, ते द्वीन्द्रिया आदौ येषां ते द्वीन्द्रियादय इति तद्गुणसंविज्ञानो बहुव्रीहिः, पञ्चेन्द्रियपर्यवसानाः, वक्ष्यति-'पञ्चेन्द्रियाणि' (अ० २, सू० १५) इति । पश्चैव नातः परमिन्द्रियम्, नियमाद्धि तद्वतामवच्छेदः । चशब्दः समुच्चितौ । सर्वे एते सा भवन्ति । इतिशब्दोऽवधृतौ । एतावन्त एव सामान्यत इति । त्रसत्वं च द्विविधं-क्रियातो लब्धितश्च । तत्र क्रिया
__ कर्म चलनं देशान्तरप्राप्तिः । अतः क्रियां प्राप्य तेजोवाय्वोत्रसत्वम् ,
पलब्धिस्तु बसनामकर्मोदयः, यस्माद् द्वीन्द्रियादीनां क्रिया च देशान्तराप्राप्तिलक्षणेति, लब्ध्या पृथिव्यप्तेजोवायुवनस्पतयः सर्वे स्थावरनामकर्मोदयात् स्थावरा एव, आदिवचनं तेजसश्चक्षुःप्रत्यक्षाल्पत्वात् , ततो वायोस्तदधिकसूक्ष्मत्वात् , असमासकरणं तेजोवाय्वोः संज्ञाद्वैविध्यप्रतिपादनार्थम्-त्रसौ स्थावरौ चेति, तेजोवाय्वोः समासकरणं स्थावरैः सहैकेन्द्रियत्वसाधात् , द्वीन्द्रियाद्युत्तरवचनमिन्द्रियक्रमवृद्धेः । संसारिणस्नसा इत्यादि भाष्यम् । कोऽभिप्रायः ? अर्थापत्तिरपि प्रमाणान्तरं नयवादान्तरेणेति प्रागुक्तम्, तस्याः प्रामाण्यद्वारेण विषयप्रदर्शनं क्रियते-संसारिणां त्रसस्थावरत्वविधाने मुक्तानामुमयमपोदितं भवतीति, न ते त्रसाः स्थावरा वा तल्लक्षणानुपपत्तेरिति ॥ १४ ॥ __ निर्दिष्टा उपयोगिनः, सम्प्रतीन्द्रियाण्युच्यन्ते कः पुनरस्य सम्बन्धः सूत्रस्य ? उच्यते-उक्तं प्रथमे ' तदिन्द्रियानिन्द्रियनिमित्तं ' (अ० १, सू० १४ ) मतिज्ञानमनन्तरं च द्वीन्द्रियादयस्त्रसास्तत्र कियन्तीन्द्रियाणि ? कतिविधानि वा तानि ? तेषां वा मध्ये कस्य किमिन्द्रियमुपयोगिन इति ? तत्रादौ सङ्ख्यानमेव तावनिरूपयितुमाह
सूत्रम्-पञ्चेन्द्रियाणि ॥२-१५॥ टी-अथवा येयं चैतन्यव्यक्तिर्जीवानां सेन्द्रियद्वारेणेति, तानि च न सर्वाणि सर्वस्येति विभागो वक्ष्यते, इन्द्रियनियमः पुनः पञ्चधैवेत्यत आह-पश्चेन्द्रियाणि । अथवा जीवानामुपयोगो लक्षणमन्वयि सर्वत्र निगदितम्, तस्योपयोगस्य निमित्तान्यमून्यपदिशन्ति पञ्चेन्द्रियाणि ॥ ननु च सूत्रारम्भो निष्फल एव लक्ष्यते, किमनेनोक्तेन भवति पञ्चेन्द्रियाणीति ? । इन्द्रियस्वरूपमेवात्र वक्तव्यम् , द्रव्येन्द्रियमित्थंलक्षणमेवंप्रकारं च भावेन्द्रियम् इत्याशङ्कायामाह भाष्यकार:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org