________________
पृथ्वीकायिकानामनेके भेदाः
सूत्रं १३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१५९ त्येकशरीरासङ्ख्येयत्वसाम्याच्च, ततो वनस्पतिरनन्तत्वात् , समासश्च परस्परसङ्क्रमज्ञानार्थः। अधुना स्वस्थान एव पृथिव्यादीनामनेकभेदमाचिख्यासुराह-पृथिवीकायोऽनेकविध इत्यादि भाष्यम् । पृथ्वीकायजात्यनतिक्रमेणानेकभेदता दर्श्यते-शुद्धपृथिवी वक्ष्यमाण
_शर्करादिभेदरहिता मृत्तिकारूपा गोमयकचवरायनेकेन्धनरहिता वा, ' तथा शर्करापृथिवी परिलघुकाश्मशकलव्यतिमिश्रा, वालुकापृथिवी
वालुकाव्यतिमिश्रा मृत्तिकेति । आदिशब्देनोपल-शिला-लवणोपायस्त्रपुताप्र-सीसक-रजत सुवर्ण-वैर-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्जन-प्रवालाभ्रपटलाभ्रवालिका-गोमेद-रुचकाङ्क स्फटिक-लोहिताक्ष-मरकत-मसारगल्ल-भुजगेन्द्रनील-चन्दन-गैरिक-हंसगर्भ-पुलक-सौगन्धिक-चन्द्रसूर्यकान्त-वैडूर्य-जलकान्तप्रकाराः सर्वे बादरपृथिवीकायभेदा ग्राह्याः। एते च शुद्धपृथिव्यादयः स्वाकरस्था एव प्रायश्चैतन्यं विभ्रति, गोमयकचवरसवितृतापादिसम्पर्कात तु गतचेतना अपि जायन्ते, एषां च बादराणां यत्रैको जीवस्तत्रासङ्ख्येयैर्नियमतोभाव्यम्, स्थानमपि चैपां पृथिव्यष्टकाधोऽधः पातालभवननरकप्रस्तरादि । अपरं सूक्ष्मपृथिवीकायाः सर्वलोकव्यापिनः, उभयेपामपि चैपाममी परमपिप्रणीतप्रवचनप्रसिद्धा भेदा वेदितव्याः पर्याप्तकापर्याप्तकशरीरत्रयाङ्गुलासङ्ख्येयभागशरीरसेवार्तसंहननमसूरचन्द्रसंस्थानकषायसंज्ञाचतुष्काबलेश्यात्रयस्पर्शनेन्द्रियवेदनाकषायमारणान्तिकसमुद्घातासंज्ञिनपुंसकवेदपप्तिचतुष्टयमिथ्यादर्शनाचक्षुर्दर्शनाज्ञानकाययोगसाकारानाकारोपयोगाहारादिप्रकाराः, विशेपास्तु बादरपृथिवीकायानामाद्याश्चतस्रो लेश्याः, शेषं समानम् , असङ्ख्येयाश्च प्रत्येकमुभये । कथं पुनरिदं विज्ञायते साकारानाकारोपयोगादिजीवलिङ्गकलापोऽत्राशेषप्राणिचि
भूतोऽस्तीति ? । उच्यते-आगमतो युक्तितश्च, आगमस्तावत्-" पुढे विकाइया णं भंते ! किं सागारोवओगोवउत्ता अणागारोवओगोवउत्ता ? गोयमा ! सागारोवओगोवउत्तावि अणागारोवओगोवउत्तावि" (प्रज्ञा० सू० ३१२)॥ तथा "पुंढविकाइए णं भंते ! अक्कंते समाणे केरिसयं वेदणं पच्चणुभवति ? गोयमा ! से जहा नामए केइ पुरिसे तरुणे बलवं जुवाणे जाव निउणसिप्पोवगए एगं पुरिसं जुण्णं जराजजरियदेहं परिहीणसगलिंदियवियारं दुबलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणेज्जा, से णं गोयमा ! पुरिसे तेणं जमलपाणिणा मुद्धाणंसि अभिहते समाणे केरिसयं वेयणं पच्चणुभवति ?, अणिहं सम
१ वालिका ' इति क-ख-पाठः । २ 'गोमेदक' इति क-ख-पाठः । ३ 'रुचकाह ' इति ग-टी-पाठः। ४ पृथ्वीकायिकाः भदन्त ! किं साकारोपयोगोपयुक्ताः अनाकारोपयोगोपयुक्ताः ?, गौतम ! साका० अपि अना० अपि। ५ पृथ्विकायिको भदन्त ! आक्रान्तः सन् कीदृशीं वेदनां प्रत्यनुभवति ? । गौतम ! तद्यथानामकः कश्चित् पुरुषस्तरुणो बलवान् युवा यावत् निपुणशिल्पोपगत एकं पुरुष जीर्ण जराजर्जरितदेहं परिहीनसकलेन्द्रियव्यापार दुर्बलं क्लाम्यन्तं , पाणियमलेन मनि अभिहन्यात्, स गौतम ! पुरुषस्तेन पाणियमलेन मनि अभिहतः सन् कीदृशी वेदना प्रत्यन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org