________________
स्थाव
१५८ तत्त्वार्थादिगमसूत्रम्
[ अध्यायः २ यदितः प्रभृति वक्ष्यते आ चतुर्थाध्यायपरिसमाप्तेस्तत् सर्व संसारिणामित्यधिक्रियते । ते च संसारिणो जीवा द्विविधा भवन्ति, तद्यथा-साः स्थावराश्चति । परिस्पष्टसुखदुःखेच्छाद्वेषादिलिङ्गास्त्रसनामकर्मोदयात् त्रसाः, अपरिस्फुटसुखादिलिङ्गाः स्थावरनामकर्मोदयात् स्थावराः, आदौ च त्रसाभिधानं सुखग्रहणार्थम् , स्पष्टलिङ्गत्वात, समास उभयेषां परस्परसङ्कमार्थम, त्रसाः स्थावरेषु स्थावराः त्रसेषु मृत्वोपजायन्त इति । एवं तावत संसारिणो द्वैविध्येन विकल्पिताः-त्रसाः स्थावराश्चेति ॥ १२ ॥
सूत्रम्-पृथिव्यम्बुवनस्पतयः स्थावराः॥२-१३ ॥ भा०-पृथ्वीकायिकाः, अप्कायिकाः, वनस्पतिकायिकाः इत्येते विविधाः
. स्थावरा जीवा भवन्ति । तत्र पृथिवीकायोऽनेकविधः शुद्धराणा दा पृथिवीशर्करावालुकादिः । अप्कायोऽनेकविधः हिमादिः । वनस्पतिकायोऽनेकविधः शैवलादिः ।। १३ ॥
टी-तत्र स्थावरानेव तावद् वच्मः-पृथिव्यम्वुवनस्पतयः स्थावराः ॥ ननु च यथोद्देशं निर्देशः कर्तव्यः, प्रथमं वसा वक्तव्याः ततः स्थावराः । उच्यते-प्रेक्षापूर्वकारितयाऽऽचार्येण स्वरचितव्यवस्था भित्त्वा स्थावरास्तावदभिहिताः। का पुनरसौ प्रेक्षापूर्वकारिता? भण्यते-वक्ष्यत्युत्तरसूत्रं(१४) 'तेजोवायू द्वीन्द्रियादयश्च त्रसाः, तत्र इन्द्रियप्रकरणमधीत्य वक्ष्यति 'वाय्वन्तानामेकम्' (अ०२, मू०२३) तत्रायमर्थः-पृथिव्यादीनां वास्वन्तानामेकेन्द्रियं स्पर्शनं भवति, यदि पुनः पूर्व प्रसाभिधानं कुर्यात् पश्चात् स्थावरानभिदध्यात् तथा( दा ) गौरवं जायेत, अर्थलाघवैषिणा सता क्रमो भिन्नः। तत्रेत्यनेन सूत्रं सम्बन्धयति, तत्र द्वितये प्रस्तुते स्थावरास्तावदुच्यन्ते प्रयोजनार्थम्-पृथिवीकायिका इत्यादि भाष्यम् ॥ ननु च सूत्रे कायग्रहणं नास्ति, भाष्ये कथमकस्माद् विहायसोऽपतदिति ? । उच्यते लाघवार्थिना सूत्रे नोपात्तम्, विनाऽपि तेन सिद्धेः, भाष्ये तु यथेष्टमधिकमप्युच्चार्यते सूत्रार्थममुश्चतेति । तत्र पृथिव्येव कायः पृथिवीकायः, स येषां विद्यते ते पृथिवीकायिकाः ॥ ननु च लघुत्वात् प्रक्रमस्य बहुव्रीहौ सति तदभिहितत्वान्मत्वर्थीयेन न भाव्यम्, ततश्च पृथिवी कायो येषां ते पृथिवीकायाः, सत्यमेवमेतत् , तथाप्यनरवन्ति चक्राणीत्येवमायनेकप्रयोगदर्शनात् साधुत्वमत्रापि प्रतिपत्तव्यम् । अथवा पृथिवीकायादयो जातिशब्दास्ततश्च मत्वर्थीयः सिद्धः कृष्णसर्पवद्वल्मीकन्यायेनेति, एवमितरयोरपि योज्यमेतत् । इतिशब्दोऽर्थपदार्थकः । त्रिविधा एव स्थानशीला भवन्ति जीवाः पृथिव्यादयः, न पुनः स्थावरनामकर्मोदयनिवृत्तानां त्रैविध्यं निर्धारयति, तेजोवाय्वोरपि तन्निवृत्तेरिति । स्थूलोत्तरद्वयाधारत्वादादौ न्यस्ता पृथिवी, तदन्यापस्तदाधेयत्वाल्लेश्याप्र
१ ' मृत्वोपयात ' इति क-ख पाठः । २ ' पृथ्व्यव. ' इति घ-पाठः । ३ लाघवार्थ' इति ख-पाठः ४ 'इतरेतरयोरपि ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org