________________
सूत्र २] स्वोपज्ञभाष्य टीकालङ्कृतम्
१४१ संख्येयप्रदेशोपि प्रदीपत्रदाश्रयमात्रावभासी प्रमाणत्वात् अमूर्तेभ्योऽप्याकाशादिभ्यो भिन्नजातीय इति ॥१॥
एवमेते जीवस्य स्वनिमित्ताः कर्मक्षयावस्थानिमित्ताश्च भावा मूलभेदतो व्याख्याताः । अधुनैषां प्रत्येक सम्भविनो भेदाः प्रतायन्ते, यथैव निमित्तान्तरादविलक्षणस्यापि जीवस्य भावानां पञ्चत्वं तथा पञ्चानामपि पृथक पृथक् निमित्तापेक्षा भेदा भवन्ति, ते चाभी
सूत्रम्-दिनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २-२॥
भा०–एते औपशमिकाद्यः पञ्च भावाः दिनवाष्टादशैकविंशतित्रिऔपशमिकादीनां भेदा भवन्ति । यथा औपशमिको विभेदः । क्षायिको
भेदसंख्या नवभेदः । क्षायिकोपशमिकोऽष्टादशभेदः । औदयिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति। यथाक्रममिति येन सूत्रक्रमेणात ऊर्ध्व वक्ष्यामः ॥२॥
टी-द्विनवाष्टादशेत्यादि सूत्रम्, द्वौ च नव चेत्यादि द्वन्द्वः, पश्चाद् बहुव्रीहिः, द्विनवाष्टादशैकविंशतित्रयो मेदा येषां ते दिनवाष्टादशैकविंशतित्रिभेदा औपशमिकादयः, प्रागुपन्यस्तसूत्रानुपूर्यपेक्षं यथाक्रमग्रहणम् । एतच्च व्यतिकरदोषनिवृत्यर्थ मा भूत पञ्चानामेकस्यैते भेदाः, समस्तानां वा एतावन्त एव, किन्तु एकैकस्य मावस्य वक्ष्यमाणाः सम्यक्त्वचारित्रे इत्यादयो यथा स्युरिति यथाक्रमग्रहणम् । इह केचिद् विद्वांसः संसारस्थानामिति वाक्यशेषमधीयते सिद्धव्यावृत्त्यर्थ, न किलैते धादिमिन्नास्तेषु सम्भवन्ति भावाः, एकरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , तत्र हि यथासम्भवं ग्रहीष्यन्ते, नावश्यं सर्वैः स्वभेदैः सर्वत्र भवितव्यम् , यथा संसारिणामपि मिथ्यादृष्टीनां न कदाचिदौपशमिकक्षायिकौ भवतः, अभव्यानां वा, तथा सिद्धेष्वपि यथासम्भवग्रहणमिति न किश्चिद्वाक्यशेषेण । तथैवंरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , यस्मात् क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानैः आत्यन्तिकैः स युक्तोऽतिनिर्द्वन्द्वेनापि च सुखेन, ज्ञानादयस्तु भावप्राणाः, मुक्तोऽपि जीवति स तैर्हि, तस्माज्जीवत्वं नित्यं सर्वस्य जीवस्येत्येवमादयः पारिणामिका अपि भावाः सन्ति, न परिणाम एवेत्यवधृतिः ॥
सम्प्रति भाष्याक्षराणि विवियन्ते-एत इति प्रत्यक्षासन्नवाचिना सर्वनाम्नाऽनन्तरसूत्रनिर्दिष्टान् भावानभिमुखीकरोति, औपशमिकाद्य इति प्रतिविशिष्टं क्रममाचष्टे, भावा इति भवनलक्षणा जन्तोः परिणतिविशेषाः, पञ्चेति सङ्ख्ययाऽवधारणं तेषाम् , एतावता भाष्येणानूद्य पूर्वकमर्थमधुना भेदान् विधत्ते द्विनवेत्यादिना । इदं च सूत्रमेकमेवाचार्येण खण्डीकृत्याधीतम्, न पुनर्विवरणमस्य, कुत एतद् भवतीति ? सूत्रमध्ये उच्चार
'क्षायोपशमिक ' इति घ-पाठः। २ 'संसारस्थायिनाम् ' इति ग-टी-पाठः । ३ 'वाक्यशेषमभिदधत'
इत्यचितं प्रतिभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org