________________
१४२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः २
णाद् विभक्त्यश्रवणाच्च व्यादिषु निश्चीयते, पुनः सूत्रपाठे तर्हि किं प्रयोजनम् १ एतावल्लक्ष्यतेपूर्व सूत्रार्थमनूद्य यथाक्रमं सूत्रं सम्बन्धयति - औपशमिको द्विभेद इत्यादि । विवरण सुगमम् । पारिणामिकस्त्रिभेद् इति, अयमितिशब्द आदिशब्दार्थे, शेषपारिणामिकभेदसङ्ग्रहार्थम्, यथाक्रममिति, अत्रेतिशब्दः शब्दपदार्थकः; अनेन शब्देनायमर्थः प्रत्याय्यते, येन सूत्रक्रमेणात ऊर्ध्वं वक्ष्यामः, येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे इत्यादिना अस्मात् सूत्रादुपरिष्टात् भणिष्यामः तेन क्रमेण यथाक्रममौपशमिकादयो द्रष्टव्याः । वाक्यान्तरेण प्रकृतार्थनिगमनमादर्शितम्, वाक्यान्तरनिरूपणं च व्याख्यायाः प्रधानाङ्गमिति सङ्ख्यानमात्रश्रवणादुद्देशसूत्रमिदं, न तु भेदनिर्देशः ॥ २ ॥
सम्प्रति संख्येयान् भावविशेषान् निर्दिशति, औपशमिकस्य तावत् सूत्रक्रमप्रामाण्यात् भेदद्वयं प्रतिपिपादयिषुराह
सूत्रम् - सम्यक्त्वचारित्रे ॥ २-३ ॥
औपशमिकस्य
भा० - सम्यक्त्वं चारित्रं च द्वावोपशमिको भावो भवत द्वौ भेदौ इति ॥ ३ ॥
टी० – सम्यक्त्वचारित्रे सम्यक्त्वमुक्तं प्रथमेऽध्याये लक्षणविधानाभ्याम्, चारित्रं नवमे वक्ष्यते । एतदुभयमपि सिद्धं गृहीत्वा इहोपशमिकभावो नियम्यते, सम्यक्त्वचारित्रे त्वनियते क्षायिकक्षायोपशमिकयोरपि भवतः, औपशमिकभावस्तु द्वयमिदमपहाय न भेदान्तरमवरुणद्धि, अयं च नियमो द्विनवाष्टादिसूत्रारम्भसामर्थ्याल्लभ्यते, औपशमिको द्विभेद एवेति गम्यते, सख्याशब्दोपादानेऽप्येवकारेण तद्यथेत्यादिभाष्ये अनन्तरसूत्रनिर्दिष्टं द्विभेदत्वमौपशमिकस्य तदधुना यथा भवति तथा प्रकाश्यते - सम्यक्त्वचारित्रे चेति, तत्त्वरुचिः सम्यक्त्वम्, सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं चारित्रम्, चशब्दः समुच्चये, एतदुभयमपि इष्टनियमप्रदर्शनार्थम्, द्वाविति सङ्ख्योपादानम्, स च प्रकटीकृत एव प्राक् । औपशमिकावित्यनेन नियम्य पदार्थ दर्शयति- भावाविति । सम्यक्त्व चारित्रयोरात्मपर्यायत्वं दर्शयति- - भवत इति । श्रद्धान चरणक्रिययोः क्रियावतः सकाशादनन्यत्वमाह, अतः समुदायार्थोऽयम् - सम्यक्त्वचारित्रे द्वे एव औपश मिको भावो भवति, नान्यथेति ॥ ३ ॥
अथ क्षायिको नवभेद उद्दिष्टः सोऽधुना निर्दिश्यते—
सूत्रम् - ज्ञान दर्शनदान लाभभोगोपभोगवीर्याणि च ॥ २–४ ॥
भा० - ज्ञानं, दर्शनं, दानं, लाभः, भोगः, उपभोगः, वीर्यमित्येतानि सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति ॥४॥
क्षायिकस्य नव भेदाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org