________________
१४० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ मरकगतिनाम विपकं सदौदयिकशब्देनोच्यते कषायमोहनीयं च विपकं क्रोधादि तत् कथं जीवस्य स्वतत्त्वं स्यात्? यतः कर्म पौगलिकं मूर्तमचेतनं,आत्मस्वभावस्तु तद्विपरीत इति। उच्यतेननूक्तमेव प्राग् उपलक्षणभूताश्चैते प्रायः पार्थक्येनापि वर्तमाना धूमवदनेरात्मनो भावाः गमका भवन्ति हेयाश्च, अथवा य एते गत्याद्याः परिणामविशेषाः स जीव एव कमावष्टम्भजनितपरिणामानन्यत्वात् , अन्योऽन्यानुगतौ सत्यामविभागात् , तदात्मकत्वमुदकदुग्धयोरिवात्मकमणोः, अतः स्वतत्त्वमात्मनो गत्यादयः, सैव हि चेतनाऽनपायिनी कर्ममलदिग्धाऽनेकावस्थान्तरावस्कन्दिनी तथा व्यपदिश्यते इति न दोषः । कश्चिदाढौकते-परिणाम एव हि पारिणामिक इति स्वार्थे प्रत्ययो न प्रयोजननिवृत्योः, किं कारणम् ? आदिमत्त्वप्रसङ्गाज्जीवभव्याभव्यत्वादेः, यदि परिणामः प्रयोजनमस्येति व्युत्पत्तिः पारिणामिको जीव इति ततः प्रागवस्थायां नाभूज्जीव इति, युक्त्यागमाभ्यां चैष पक्षो विरुध्यते, एवं निर्वत्यर्थेऽपि प्रागनिवृत्तौ निर्व]त, स एव दोषः, तथा भव्याभव्यत्वादिष्वपि योज्यम् । युक्तिविरोधस्तावत् कथमसन् खरविषाणकल्प आत्मोत्तरकालं सम्भवेत् । आगमश्चायम्-"एस ण मंते! जीवे तीतमणंतं सासयं समयं भवतीति वत्तव्वं सिया ? हंता गोयमा! एसणं भंते ! जीवे पडुप्पण्णं सासयं समयं भवतीति वत्तव्वं सिया ? हंता गोयमा! एस णं जीवे अणागयमणंतं सासतं समयं भविस्सतीति वत्तव्वं सिया ? हंता गोयमा" (भगवत्यां श० १४, उ०४,२०५११) तस्माद् युक्त्यागमविरोधौ मा भूतामिति । परिणाम एव हि पारिणामिक इति स्वार्थे प्रत्ययो न प्रयोजननिवृत्योः, किं कारणम् ? आदिमत्त्वप्रसङ्गात पारिणामिकोऽनादिप्रसिद्धः सकलपर्यायराशेः प्रहृतामभिमुखतां प्रतिपद्यमानोऽशेषभावाधारतां विभीति नामुना विना कस्यचिद् भावस्य निष्पत्तिः, अतश्च प्राधान्यमस्यैव भावानां मध्ययिति । पारिणामिकशब्देन च द्रव्यभावप्राणावस्थाख्यः परिणाम उच्यते, तथा सेधनयोग्यः परिणामो भव्यः, अभव्यस्तु न कदाचित् सेधनयोग्यः परिणाम इति । सूत्रपयेन्तवी चशब्दः समुच्चये, औपशमिकादयो भावाः जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च स्वतत्त्वमिति भावानां पर्यन्ते च वृत्तावितिशब्दोऽर्थपदार्थः; क एते
औपशमिकाद्याः पञ्च भावाः ? जीवस्य स्वतत्वं भवन्ति, विनाऽप्येवकारेण सङ्ख्याशब्दोपादानादवधृतिर्गम्यते पश्चैवाऽन्यूनाधिका भावाः पर्यायाः जीवस्य स्वतत्त्वमुपलक्षणद्वारेण भूयसा भवन्ति । एते च सर्वजीवेषु सर्वदा साकल्येन न भवन्तीत्युपलक्षणमात्रमतो द्रष्टव्याः। एवमौपशमिकादिभावयुक्तो द्रव्यं जीवः सङ्कोचविकासस्वभावो लोकाकाशप्रदेशमाना
१ एष भदन्त ! जीवः अतीतेऽनन्ते शाश्वते समये भवतीति वक्तव्यं स्यात् ? हन्त गौतम !, एष भदन्त ! जीवः प्रत्युत्पन्ने शाश्वते समये भवतीति वक्तव्यं स्यात् ! हन्त गौतम !, एष जीव अनागतेऽनन्ते शाश्वते समये भविष्यतीति वक्तव्यं स्यात् ? हन्त गौतम !
२ 'नीयमाणं' इति ग-दी-पाठः। ३ 'भुवीति' इति ग-टी-पाः। ४ 'सासयं' इति ग-टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org