________________
सूत्र १]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१३९
der अत्थेगइयं नो वेह, णायमेवं अरहता विण्णायमेयं अरहता - अयं जीवे इमं कम्मं अझ गमिया वेयणाए वेदिस्सति, अयं जीवे इमं कम्मं उवक्कमियाए वेयणाए वेदिसति अहाकम्मं अहाक (निग) रणं जहा जहा तं भगवया दिहं तहा तहा विपरिणमिस्सतीति - से अणं गोयमा ! एवं वुच्चति" ( भगवत्यां श०१, उ० ४, सू० ४० ) अतोऽस्ति विशेष: औपशमिकक्षायोपशमिकयोरिति । अत्रापि त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः प्रदेशकर्मोदययुजः क्षायोपशमिकशब्दवाच्या भवन्ति, चशब्दः समुच्चयार्थः, औपशमिकक्षायिक स्वतत्त्वं मिश्रथ स्वतत्वमिति । जीवस्येति कर्तृलक्षणा षष्ठी, जीवस्यैवैते त्रयो भावाः, नान्यस्य स्तम्भकुम्भादेः, वक्ष्यमाणदर्शनादिकलापानुपलब्धेः, इह च जीवशब्द आत्मपर्यायः शुद्धो गृह्यते, नायुः प्राणसम्बन्धोद्भासितो जीवनाज्जीव इति, मुक्तानां तदनभिसम्बन्धात् । अथवा द्रव्यभावप्राणसामान्याङ्गीकरणे सति प्रतिविशिष्ट सम्बन्धापेक्षः शब्दो भवत्येव जीवनाज्जीवः, संसारिणः द्रव्यप्राणाः पश्चेन्द्रियादयः सिद्धानां भावप्राणाः ज्ञानोपयोगादय इति । स्वतत्त्वमित्ययं स्वशब्द आत्मात्मीयादिषु प्रसिद्धः तत्रात्मनि वर्तमानोऽ ङ्गीक्रियते, तत्त्वशब्दो भावाभिधायी, ततञ्चायं समुदायार्थः - जीवस्यायमात्मा भावः जीवस्या - यमात्मस्वरूपभवनम् एवमौपशमिकादिरूपेणात्मनैव स तथा भवतीति, अव्यतिरेकलक्षणा चेयं कर्तुरनर्थान्तरं षष्ठी, स्वतत्त्वं च पदार्थानामनध्यारोपितमनपोदितं च भवति, सर्वदा जीवश्चेतनालक्षण इति नाध्यारोपितं, नापोदितं किंचित्, चेतनायाः सुखदुःखादिसाधारणसंवेदनलक्षणायाः प्रति स्वं प्राणिविशेषप्रति संवेद्यत्वात्, तत्राध्यारोपो विभुनिरवयवनिष्क्रियादिधर्मकत्वेन, अपवादो नास्त्यात्मा न प्रमाणविषयो न च त्वक्पर्यन्तशरीरसम्बन्धीति, स्वानुभवविरुद्धत्वात्, अध्यारोपे चाप्रमाणकत्वात् यदेव प्रत्यात्मप्रसिद्धं तदेवास्य लक्षणम्, वक्ष्यति च द्वितीयप्रश्नमधिकृत्य कथंलक्षणो वेति, 'उपयोगो लक्षणं' (अ०२, सू०८) इति, चेतनाविशेषलक्षितस्य च कर्मोदयाद्यपेक्षाणि भावान्तराण्यधिकृत्य को जीव इत्यत्र प्रश्ने प्रतिपत्तिराहिता आत्मनः, एकरूपमपि चैतन्यस्वतत्त्वं कर्मक्षयोपशमाद्यवस्थाविशेषनिमित्ताद्वयपदेशाद्भावेयत्तानियमं प्रतिपद्यते, उपलक्षण भूताश्चैते कर्मापेक्षत्वाद् भवन्ति स्वतत्त्वं यथा चक्षुर्द्वारकज्ञानविषयो रूपमिति, उपयोगः पुनः स्वतत्त्वं यथा मूर्ती रूपमिति, तथा चामेरुष्णत्ववच्चैतन्यलक्षणमहेयमात्मनः, तस्यैवाग्नेर्धदशमिकादि प्रायो यमुपलक्षणमिति । कर्मविपाकाविर्भाव उदयः तत्प्रयोजनस्तन्निर्वृत्तो वा औदयिको भावः । तद्यथा— नरकगतिनामकर्मोदयान्नरकग तिरौदयिकोऽभिधीयते भावः" कषायमोहनीयोदयाच क्रोधी मानीत्याद्यौदयिकः, सर्वत्रैवं वासनाऽऽधेया, यद् यत्र
,
प्रायः
भागकर्म तदस्त्येककं वेदयति, अस्त्येककं नो वेदयति, ज्ञातमेतदर्हता, विज्ञातमेतदर्हता- अयं जीव इदं कर्म आभ्युपगमिक्या वेदनया वेदयिष्यति । अयं जीव इदं कर्म औपक्रमिक्या वेदनया वेदयिष्यति, यथाकर्म यथानिकरणं यथा यथा भगवता दृष्टं तथा तथा विपरिणंस्यति इति तत् खेनार्थेन गौतम । एवमुच्यते ।
अज्झोदं गमियाए ' इति ग-टी-पाठः ।
२ ' निमित्ताद्यपदेशात्' इति ग-टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org