________________
१३८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ केनाविनामाविना हुताशन इवोष्णत्वेन लक्षयितव्यः, आहोस्विदपायभाजा व्यतिरिक्तेन धूमेनेव हुतभुगवबोद्धव्य इति पृच्छति-कथंलक्षणो वेति । लक्ष्यते अनेनेति लक्षणंलिङ्गमित्यर्थः, कथं लक्षणमस्येति कथंलक्षणः, वाशब्दश्चशब्दार्थे, को जीवः कथंलक्षणश्चेति, इतिशब्दः शिष्याभिप्रायेयत्ताप्रकाशनार्थः। एवं प्रश्नद्वयप्रदर्शने प्रबोधने सति आचार्य आहअत्रोच्यते इति । अत्रास्मिन् प्रश्नद्वयेऽपि भण्यते प्रतिवचनम् , तत्राद्यं प्रश्नमधिकृत्य सूरिः सूत्रमधिजगेसूत्रम्-औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ २-१ ॥
भा०-औपशमिकः, क्षायिकः, क्षायोपशमिकः, औदभावेषु औपशमिकाद्या भेदाः
यिकः, पारिणामिकः, इत्येते पञ्च भावा जीवस्य स्वतत्त्वं
भवन्ति ॥ १॥ टी-औपशमिक इत्यादि । समुदायार्थस्त्वयम्--औपशमिकादिभावयुक्तो द्रव्यं जीव इति कर्मगुणनिरासद्वारेण प्रतिपादयति । तत्रोपशमनमुपशमः--कर्मणोऽनुदयलक्षणावस्था भस्मपटलावच्छन्नाग्निवत् सः प्रयोजनमस्येत्यौपशमिकस्तेन वा निर्वृत्तः । तथा तदत्यन्तात्ययात् स क्षयः स प्रयोजनमस्य तेन वा निवृत्त इति क्षायिकः, भवनं भावः तेन पर्यायेण आत्मलाभः, कर्मण उपशमाद् यद् दर्शनं चरणं वा श्रद्धानलक्षणं विरतिलक्षणं वा तथोद्भवति तदोपशमिकशब्देनोच्यते, तथा क्षायिकशब्देन त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः शीणांशेपस्वविघातिकर्माशाः प्रतिपाद्यन्त आत्मनः स्वरूपतयेति, क्षयोपशमाभ्यां निवृत्तो मिश्रः दरविध्या(ताव)च्छन्नज्वलनवत् , कथं पुनः भाव्यते ? यदुदयाचलिकाप्रविष्टं कर्म तत् क्षीणं शेषमनुद्रेकक्षयावस्थमिमामुभयीमवस्थामाश्रित्य मिश्रः
. प्रजायते ।। ननु चायमेवौपशमिकान्न भिद्यते, यतस्तत्राप्युदितं क्षीणमिया मनुदितं चोपशान्तमिति । अत्रोच्यते-क्षयोपशमे युदयोऽप्यस्ति, प्रदेश
तया कर्मणो वेदनानुज्ञानात् , न त्वसाविति विघाताय, अनुभावं पुनर्न तत्र वेदयते, उपशमे तु प्रदेशकापि नानुभवति मनागपि नोदयोऽयं विशेष इतियावत् । आगमथायम्-" से गृणं भंते ! णेरइयस्स वा तिरिक्खजोणियस्स वा मणुस्सस्स वा देवस्स वा जे कडे (पावे) कम्मे णस्थि णं तस्स अवेइत्ता मोक्खो ? हंता गोयमा० ! से केणटेणं भंते ! एवं वुच्चइ ? एवं खलु गोयमा! मए दुविहे कम्मे पन्नत्ते, तंजहा पदेसकम्मे अणुभावकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अनुभावकम्मं तं अत्थेगइयं
१- सतत्त्वं ' इति क-ख-पाठः।
२ अथ नूनं भदन्त ! नरयिकस्य वा तिर्यग्योनिकस्य वा मनुष्यस्य वा देवस्य वा यत् कृतं ( पापं ) कर्म नास्ति तस्यावेदित्वा मोक्षः । हन्त गौतम! तत् केनार्थेन भदन्त ! एवमुच्यते ? एवं खलु गौतम | मया द्विविधं कर्म प्रक्षतं, तद्यथा-प्रदेशकर्म अनुभागकर्म च । तत्र यत् तत् प्रदेशकर्म तद् नियमेन वेदयति, तत्र यत् तद् अनु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org