SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सूत्रं १ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् यिकः पूर्वस्वामिसाधर्म्यात् तदन्यकर्माश्रयत्वाच्च ततः पारिणामिको महाविषयत्वादत्यन्तभेदाच्च पूर्वकेभ्य इति । सान्निपातिकोऽपि लाघवैषिणा पृथक् नोपात्तः, मिश्रग्रहणादेव प्रतिलब्धः, यत एषामेवोपशमिकादीनां द्विकादिसंयोगेन सान्निपातिको निष्पद्यते षड्विंशतिविकल्पः, तत्रैकादश विरोधित्वादसम्भवतस्त्यक्ता विकल्पाः, पञ्चदशोपात्ताः प्रशमरतौ सम्भविनः, “षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेद: " (प्रशम० प० १९७) इति वचनात्, ते च विकल्पाः पञ्चदश औदयिकक्षायोपशमिकपारिणामिकास्त्रयोऽपि युगपदेकस्मिन् निपतन्ति जन्तौ, नारकतिर्यमनुष्यदेवगतिभेदेन चैते चत्वारो विकल्पाः, तथौदयि कौपशमिकक्षायोपशमिकपारिणामिकाः कचिदकृतत्रिपुञ्जोपशमसम्यक्त्वसद्भावाद गतिभेदेनैव चत्वारो विकल्पाः, पुनरौदयिक क्षायिकक्षायोपशमिकपारिणामिकाः कचित् क्षायिक सद्भावात् श्रेणिकादिवद गतिभेदतः, पुनचैौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकाः दर्शनसप्तकवर्ज समस्तमोहनीयोपशमाच्छेषकर्मक्षयोपशमादित्वे सति मनुष्यगतावेवोपशमश्रेणिसद्भावे सत्येको विकल्पः, तथा औदयिकक्षायिकपारिणामिका एक एव भङ्गः, केवलिनो मनुष्यत्व कैवल्यजीवत्वाप्तेः, तथा क्षायिकपारिणामिकावेको भङ्गः, सिद्धे केवलसम्यक्त्वा दिजीवत्वतः, पञ्चदश सान्निपातिका भावभेदाः पञ्चकचतुष्कत्रिकद्विक संयोग निष्पन्नाः चतुरादिगतिभेदै भिश्रग्रहणालब्धाः, मिश्रग्रहणेन च सान्निपातिकः संयोगमात्रं परिगृह्यते, न क्षयोपशमाविति, कृतसमासयोश्च पूर्वयोर्निर्देश उत्पत्तिविगमकालसाम्यात् संहतोत्तर कारणत्वाच्च, औपशमिकक्षायिक हि संहितौ मिश्रस्य कारणीभवतः, मिश्र चासमासकरणं स्वामिचाहुल्य प्रतिपिपाद विषयाऽकारि, पूर्वभावयवर्तिभ्यो जीवेभ्यो भूयिष्ठाः क्षायोपशमिकभावभाजः प्राणिनः, चरमयोः पृथकरणं जीवाजीव साधारणत्वख्यापनार्थम्, पूर्वकास्त्रयो जीवानामेव, इतरौ तु साधारणौ, समासश्चावियोगप्रचिकाशयिषयाऽनयोर्द्वयोरपि । अत्र चाद्यास्त्रयो भावाः कर्मविघातापेक्षाः प्रादुःष्यन्ति, बहलरजोवितानविघाते सति तिग्मरश्मेर्दीधितिकलापोत्पत्तिवत् स पुनर्विघातो द्विविध:स्ववीर्यापेक्षो देशक्षयः कर्मणः सर्वक्षयश्च, कर्मव्यापारापेक्षश्चतु (इत्य?) र्थः, स्वोपात्त कर्मोदयात् गत्यादयो भावाः समुपजायन्त आत्मनः सुरापानजनितनृत्यादिविकारवत्, मदोद्रेकान्नत्यति हसति रोदति गायति क्रुध्यति च यथा शीलवानपि तथा गत्यादिकर्मोद्रेकाज्जीवस्तां तां विक्रियां प्रतिपद्यते गतिकषायादिकाम् । पारिणामिकस्तु निर्निमित्तः, स्वार्थे प्रत्ययविधानात्, परिणाम एव पारिणामिको राक्षसवदिति ॥ " अधुना भाष्यमनुत्रियते-अत्रेति । द्वितीयाध्यायावसरे शिष्य आह - प्रथमाध्यायेऽभिहितं भवता जीवादीनि सप्त तत्त्वानि, तत्प्रतिपत्तिः सम्यक्त्वम्, इतिशब्दः शब्दपदार्थः, कः ? उक्तमात्रस्मरणात् तथेति तेषु तत्त्वेषु निर्धार्यतामादावुपन्यस्तो जीवः क इति किंस्वरूपः, किंसतत्त्वः, किमसौ द्रव्यं, गुणः, कर्मेति सन्दिहानस्य प्रश्नः, कथंलक्षणो वेति द्वितीयः, प्रश्नः कथमिति केन प्रकारेण किमनपायिना सता लक्षणेन सर्वास्ववस्थासु गम१' वृत्त्यादि ' इति क-ख-पाठः । १८ Jain Education International For Personal & Private Use Only १३७ www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy