________________
अध्यायसम्बन्धः
॥ श्रीगौडीपार्श्वनाथाय नमः ॥
द्वितीयोऽध्यायः २
Jain Education International
भा० - अत्राह - उक्तं भवता जीवादीनि तत्त्वानीति, तत्र को जीवः कथंलक्षणो वेति ? । अत्रोच्यते
टी० - अत्राह - उक्तं भवतेत्यादिः सम्बन्धग्रन्थः, स चाध्यायप्रकरणसूत्रकृतस्त्रिधा तत्राध्यायकृतस्तावत् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग : ' ( अ० १ सू० १ ) इत्यव्यतिरिक्तकरणतयाऽऽत्मनः कर्तुस्ताद्रूप्येण निर्दिष्टानि मोक्षसाधनानि, अधुना तान्येवानेककर्मोपशमादिकारणकलापजन्यानि परिस्फुटविविक्तहेतुभाञ्जि प्रकाशयन्नाह - औपशमिक इत्यादि । तथाऽनुयोगद्वार प्रकरण प्रस्तावे निर्देशादिमूत्रव्याख्यायामुक्तम्, तद्यथा निर्देशः । को जीवः ? औपशमिकादिभावयुक्तो द्रव्यं जीवः, ते चामी जीवस्य औपशमिकादयो भावाः स्वतत्वेयत्ताभ्यामभिधीयन्ते - औपशमिक इत्यादि, तथा तत्त्वोद्देशः, तत्रादौ जीवपदार्थोपन्यासोऽकारि सूत्रकारेण तत्स्वरूपावगमेच्छया च परः प्रश्नयति को जीवः कलक्षणो वेति । किं पुनरत्र प्रयोजनं यदयमपहायाध्यायप्रकरणसम्बन्धौ सूत्रकृतमेव सम्बन्धमाविवकार भाष्यकार : १ । उच्यते - स्वल्पवक्तव्यत्वात्, सम्बन्धानां चानेकरूपत्वाद अतो यत् किञ्चिद् घटमानकं सम्बन्धान्तरमुपादाय भाष्यकृत् कृती जायते, नैवावश्यमशेष सम्बन्धाभिधानमावर्तव्यमिति कचिन्नियमः, यच्च भाष्यकारोपात्तसूत्रसम्बन्धव्यतिरिक्तसम्बन्धद्वयप्रदर्शनमाविष्कृतं तदन्योप निबन्धकारशैल्या न त्वपूर्वसम्बन्धोद्धट्टनेच्छ येति ॥ नन्वौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिक सान्निपातिका भावा इति क्रमसङ्ख्यानियमः प्रावचनोऽयं स एषः, किमर्थं परमर्षिप्रणीतप्रवचनन्यस्तक्रम सङ्ख्याभेदः सूत्रकारेणाकारि १। अत्रोच्यते -क्रमभेदस्तावल्लाघवार्थमाश्रितः, कथम् ? औपशमिकभेदद्वयमधीत्य क्षायिकभेदपाठे चशब्दानुकृष्टौ च पूर्वकौ द्वावित्येवं नवभेदमवदत् क्षायिकम् ननु प्रवचनक्रमेऽप्यौपशमिकक्षायिकावनन्तराविति न कश्चिद् विशेषः अस्ति, विशेषश्वशब्देन, किमनन्तरभेदद्वयाकर्षणमुतौदयि कैकविंशतिराकृष्यत इति सन्देहः, नन्वनन्तरभेदद्वयमेवाभिसम्भन्त्स्यते न व्यवहितम्, तदेतदेतावद् व्याख्यानमल्पधियः ऋशयन्ति गौरवं च जायते, तस्मादस्तु क्रमभेदः, अपिच - स्वल्प कालस्वामित्वादिविशेषाद प्योपशमिकादिर्युज्यते क्रमः, आन्तर्मौहूर्तिकत्वादल्पकाल औपशमिकः, अल्पस्वामिकश्वायम्, यतो न खलु बहुविधाः प्राणिनः प्राप्नुवन्ति तादृशं परिणतिविशेषम्, तदनन्तरं क्षायिकः, तस्मात् सामान्यभेदत्वाद् बहुतरकालस्वामित्वाच्च ततः क्षायोपशमिको बहुतरभेदकालस्वामित्वाच्च ततः औ
"
For Personal & Private Use Only
www.jainelibrary.org