________________
सूत्र ३५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१३५ तत् तथा, एतदाह-लौकिकविषयातीताः लौकिकानां-वैशेषिकादीनां विषयाः-शास्त्राणि तान्यतीता:-अतिक्रान्ताः, न सन्ति तेष्वित्यर्थः ॥ अथ यथा ते वैशेषिकादयो नालोचयन्त्येमिर्वस्तु तथाऽत्रापि किमाश्रयते उत नेति ? उच्यते-न तथा नालोचनीयं वस्तु, किन्त्वालोचनीयमेवेति, एतदाह-तत्त्वज्ञानार्थमधिगम्याः तत्त्वं-सद्रूपं सर्वदोषरहितं यज्ज्ञानं तत् तत्त्वज्ञानं तत्त्वज्ञानाय-तत्त्वज्ञानार्थ-तत्त्वज्ञानप्रयोजनार्थम् अधिगम्या:-- ज्ञेयाः । एतत् कथयति-समस्तनयसामण्या आलोच्यमानं वस्तु सुधियां प्रीतिमाधिनोति, अन्यथा यथावस्तु संवादो दुःखेनापाद्येत, यत एकनयमतावलम्बिनां वस्तुस्वरूपसम्पादने सामर्थ्याभावात् समग्रया नयविचारणया वस्तुस्वरूपप्रतिपादनं सुकरमवगतस्याद्वादसद्भावैरिति ॥५॥ ३५॥
ग्रन्थाग्रमकतः ४३५९ इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचनसङ्ग्रहे भाष्यानुसारिण्या तत्त्वार्थटीकायां प्रथमोऽध्यायः ॥१॥
॥ इति प्रथमोऽध्यायः॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org