SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३४ तत्त्वार्थाधिगमसूत्रम् [अध्यायः १ मिथ्यादृष्टयज्ञाने, न श्रयते नास्य कश्चिदज्ञोऽस्ति । ज्ञस्वाभाव्याज्जीवो, मिथ्यादृष्टिने चाप्यस्ति ॥ ४॥-आर्या इति नयवादाश्चित्राः, कचिद् विरुद्धा इवाथ च विशुद्धाः । लौकिकविषयातीताः, तत्त्वज्ञानार्थमधिगम्याः ॥५॥-आर्या टी०-आह चेत्यादि । विज्ञाय-ज्ञात्वा एकार्थानि पदानि जीवः प्राणी जन्तुरित्यादि, अर्थपदानि च निरुक्तपदानि परैरुक्षा सम्बन्धनमुपक्रियेति परोक्षमित्यादीनि, विधान नामस्थापनादिकम् , इष्टं चेति निर्देशस्वामित्वादि सत्सङ्ख्यादीनि च, एतज्ज्ञात्वा ततो विन्यस्य नामादिभिः परिक्षेपात्-समन्तात् नयैः परीक्ष्याणि-मीमांस्यानि तत्त्वानिजीवादीनि सप्त ॥१॥ ज्ञान-मत्यादि सविपर्यासं-मत्यज्ञानादित्रयानुगतं नैगमादयस्त्रयः श्रयन्तिअभ्युपगच्छन्ति आदित-आदेरारभ्य नयाः-वस्त्वंशग्राहिणः सर्वम्-अष्टविधम् । कस्य पुनर्ज्ञानं कस्य च विपर्यासो भवतीत्येतदाह-सम्यग्दृष्टेः-अर्हदभिहिततत्त्वश्रद्धायिनः यदिन्द्रियजमनिन्द्रियजं च तत् सर्वे ज्ञानं, मिथ्यादृष्टेः सर्वमेव विपर्यासः ॥२॥ ऋजुसूत्र उक्तस्वरूपः षट्-मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते, मतिं तु सविपर्यासां न श्रयते,अ(य)तः श्रुतस्य ग्रन्थारूषितस्य उपग्रहत्वात्-उपकारकत्वाद् उक्तेन विधिना, ततश्च श्रुतादनन्या मतिरतोऽनन्यत्वान्नाश्रयते । शब्दस्तु श्रुतज्ञानकेवलज्ञाने श्रयते, नान्यत्, किं कारणम् ? श्रुताङ्गत्वात् श्रुतस्य प्रतिविशिष्टबलाधानहेतुत्वादुक्तेन विधिना, शब्द एव नयः ॥३॥ . मिथ्यादृष्टयज्ञाने, मिथ्यादृष्टम् अज्ञानं च अपरिच्छेदात्मकं न श्रयते, किं कारणम् ? यतो नास्य कश्चिदज्ञोऽस्ति नास्त्यस्य कश्चिदज्ञः शब्दस्य मतेन कश्चित प्राणी । किं कारणमिति चेत् ? उच्यते-ज्ञस्वाभाव्यात् सर्वप्राणिनां ज्ञातृस्वरूपत्वाज्जीवो मिथ्या, दृष्टिर्नास्ति न चाप्यज्ञोऽस्ति ॥४॥ इति एवमनेनोक्तेन स्वरूपेण नयवादाः नैगमादिविचाराः चित्राः-बहुरूपाः, विचित्रैः प्रकारैर्वस्तुनः परिच्छेदित्वात् , ते चित्राः कचिद् विरुद्धाः कचिद् वस्त्वंशे रुचिगृहीते विरुद्धा इव लक्ष्यन्ते, यतः सामान्ये आश्रिते यस्तत्रैव विशेषं कल्पयति तदा पूर्वापरेण विरुध्यते, विशेषे वा त्रैकालिकेऽभ्युपेते वर्तमानावधिके विशेष आश्रिते पूर्वः परेण विरुद्ध इति लक्ष्यते, एवं सर्वेष्वायोजनीयम् । एवं कचिद् विरुद्धा इव । अथवा सम्यगालोच्यमानाः विशुद्धाः, सामान्यादीनां धर्माणां सर्वेषां तत्र वस्तुनि भावात् ॥ अथैवमेव लौकिकानामपि वैशेषिकादीनां वस्तुविचारणायां सम्पतन्त्युत नेति ? । उच्यते-न सम्पतन्ति, यदि सम्पतेयुजैनशासनवत् तान्यपि निरवद्यानि मतानि स्युः, नैव १.चाप्यज्ञः' इतिघ-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy