SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३५] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् १२९ जीवशब्दयोरुचरितयोः, नोअजीव इति प्रतिषेधद्वयसमन्विते जीवशब्दे उच्चरिते, केन नैगमादिना कोऽर्थः प्रतीयते ? मूरिराह भा०-अत्रोच्यते-जीव इत्याकारिते नैगमदेशसङ्ग्रहव्यवहारर्जुसूत्रसाम्प्रतसमभिरूद्वैः पञ्चस्वपि गतिष्वन्यतमो जीव इति प्रतीयते । कस्मात् । एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः । नोजीव इत्यजीवद्रव्यं, जविस्य वा देशप्रदेशौ । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति जीव एव, तस्य वा देशप्रदेशाविति ॥ ____टी-शुद्धपदे जीव इत्याकारिते नैगमं समग्रग्राहिणं विहाय एवम्भूतं च शेषैर्देशनैगमादिभिः सर्वासु गतिषु वर्तमानोऽभ्युपगम्यते, तदाह-नैगमदशेत्यादि । नैगमेन देशग्राहिणा तथा व्यवहारेण-विशेषग्राहिणा ऋजुसूत्रेण-वर्तमानवस्तुग्राहिणा साम्प्रतेन-वर्तमानभावग्राहिणा समभिरूढेन च-प्रतिशब्दं भिन्नार्थग्राहिणा, पश्चस्वपीति नरकतिर्यङ्मनुष्यदेवसिद्धिगतिषु, अन्यतम इति नरकादिगतिवर्ती जीवः प्राणी प्रतीयते, नाभावो नापि च भावान्तरम् । कस्मादिति चोदयति परः-किमत्रोपपत्तिरस्त्युत स्वेच्छया नैगमादयोऽभ्युपगच्छन्त्येवमिति १। सरिराह-अस्त्युपपत्तिः, तां च कथयति-एते हि नया इत्यादिना । एते नैगमादयो नया यस्मात् जीवं प्रति-जीवमङ्गीकृत्य, कीदृशं जीवमिच्छन्ति ? औपशमिकादिभिर्यो युक्तः स जीवः, औप. शमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकयुक्तः औपशमिकादियुक्तः, भाव इत्यर्थः। औपशमिकादियुक्तो योऽर्थः तं ग्रहीतुं शीलं येषां ते तग्राहिणः । सर्वासु च नारकादिगतिषु अवश्यमौपशमिकादीनां भावानां यः कश्चित् सम्भवति भावः, सिद्धिगतौ च यद्यप्यौपशमिकक्षायोपशमिकौदयिकाः न सन्ति, तथापि क्षायिकपारिणामिको सम्भवतः इत्यसावपि जीवः। नोजीव इत्युच्चरिते किं प्रतीयते तैर्नयः १ उच्यते-यदा नोशब्दः सर्वप्रतिषेधे वर्तते तदा 'नञ्युक्तमवियुक्तं च ' इत्यनया कल्पनया वस्त्वन्तरमेव प्रतीयते, नाभावः, तचाजीवद्रव्यं पुद्गलादिकमित्यर्थः । यदा तु नोशब्दो देशप्रतिषेधकस्तदा देशस्यानिषिद्धत्वाज्जीवस्य देशश्चतुर्भागादिकः प्रदेशो वाऽत्यन्ताविभजनीय उच्यते नोजीव इत्यनेन, एतदाह-जीवस्य वा देशप्रदेशाविति । अजीव इति तूचरिते सर्वप्रतिषेधकत्वादकारस्य पर्युदासस्य वाऽऽश्रितत्वाज्जीवादन्यः अजीव इति अजीवद्रव्यमेव प्रतीयते पुद्गलादिकम् । नोअजीव इति पुनरभिहिते द्वयोरपि नोकाराकारयोः सर्वप्रतिषेधे यदा वृत्तिः आश्रिता तदा 'द्वौ प्रतिषेधौ प्रकृतं गमयतः' इति जीव इति प्रतीयते, यदा पुनरकारः सर्वनिषेधको नोशब्दश्च देशनिषेधको नोअजीव इत्याश्रीयते तदा नोनोरपि कृतार्थतैवं स्याद् यदि तस्य जीवस्य देशप्रदेशौ गम्येते इत्यतो जीवस्य देशप्रदेशावत्र गम्येते, तदाह १ . देशस्य ' इति ग-पाठः । २ ' तस्याजावस् ' इति क-ख-ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy