________________
तश्वार्थाधिगमसूत्रम्
[ अध्यायः १
टी० – समुदायेत्यादि । समुदायः - सङ्घातः व्यक्ति:- मनुष्य इति आकृति:संस्थानमवयवानां सत्ता – महासामान्यं संज्ञादयो - नामस्थापनाद्रव्यभावाः एषां समुदायादीनां निश्चयो - विशेषस्तमपेक्षते - अभ्युपैति यः स समुदायव्यक्त्या कृतिसप्तासंज्ञादिनिश्चयापेक्षः । कथं निश्चयमेवापेक्षते न समुदायादीनीति ? उच्यते - नहि समुदायस्त्रैलोक्यादिरूपः समुदायिनोऽन्तरेण कंचिदप्यस्ति, न च व्यक्तिः सामान्यविशेषरूपा मनुष्य इत्यादिका मनुष्यानन्तरेणास्ति, न चाकार आकारवन्तमन्तरेणास्ति, न वा सत्ता सत्तावन्तमन्तरेणास्ति, न वा नामादयो नम्यमानादीनन्तरेण केचन सम्भवन्ति, अनुपलभ्यमानत्वाद् व्यवहाराकरणादित्यर्थः विशेषस्तु स्वप्रत्यक्ष इति, तस्मात् स एव सत्य इत्येवं समुदायादिनिश्चयापेक्षस्तं विद्यादिति सम्बन्धः । लोकोपचारनियतमिति । लोके उपचारः गिरिर्दह्यत इत्यादिकः, तस्मिन् लोकोपचारे नियतं - निष्पन्नं व्यवहारनयं विस्तृतमिति उपचरितानुपचरितार्थाश्रयणाद् विस्तीर्णमित्यर्थः, विद्याद्-अवबुध्येत ॥ ३ ॥
१२८
ऋजुसूत्रस्वभावमाह—
भा०
० - साम्प्रतविषयग्राहक - मृजुसूत्रनयं समासतो विद्याद् ।
विद्याद् यथार्थशब्द, विशेषितपदं तु शब्दनयम् ॥ ४ ॥ इति ॥ टी० - साम्प्रतेत्यादि, साम्प्रतो- वर्तमानः विषयो - ज्ञेयस्तस्य ग्राहकं, वर्तमानार्थाश्रयमित्यर्थः । समासत इति संक्षेपतः, यतो वर्तमानमात्मीयं नामादिकमित्यादिविशेषणोपेतं सङ्गच्छत्ययम् । उत्तरार्धेन शब्दखरूपमाह - विद्याद् यथार्थशब्दमिति । अनेन तु एवम्भूत इव प्रकाशितो लक्ष्यते, सर्वविशुद्धत्वात् तस्येति, यतः स एवमभ्युपैति - यदाऽर्थश्रेष्ट प्रवृत्तस्तदा तत्र घट इत्यभिधानं प्रवर्त्य, नान्यदिति । साम्प्रतसमभिरूढौ कस्मान्नाग्रेडितावितिचेत् ? उच्यते तावपि स्मारितावेव, यत आह - विशेषितपदं तु शब्दनयमिति, विशेषितपदमिति विशेषितज्ञानं, यतः साम्प्रतसम भिरूढयोरन्यादृशं ज्ञानं, नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रतीतिः साम्प्रतः शब्दान्तरवाच्यश्चार्थः शब्दान्तरस्य नाभिधेयभवतीत्येवं समभिरूढविज्ञानमिति, इतिः नयानुस्मरणपरिनिष्ठासूचकः ॥
भा०- अत्राह - अथ जीवो नोजीवः अजीवः नोअजीवः इत्याकारिते केन नयेन कोऽर्थः प्रतीयते । इति ।
टी. - अत्राह परः - घटाद्यजीवपदार्थोद्देशेन नैगमादयो नया विभाजीवादी नयविचार: विताः, सम्प्रति जीवपदार्थे विभावयन्नाह - अथ जीवो नोजीब इत्यादि । अथवा घटोदाहरणे विधिरेव केवलः प्रदर्शितः, अधुना विधिप्रतिषेधौ जीवे निरूपयति- अथेति प्रस्तुतानन्तर्य द्योतयति, शुद्धपदे केवले आका - रिते-उद्दिष्टे उच्चरिते वा जीव इति, नोजीवः अजीव इति देशसर्वप्रतिषेधयुक्तयोर्वा
१' ० संज्ञादि निश्चयाः ०' इति क- घ- पाठः, '० संज्ञाविनिश्चया ०' इति ग-पाठः । २ ' केबले आदिष्टे' इति
1:21.6--2
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org