________________
सूत्र ३५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१२७ स्मीयो विषयो-ज्ञेयः स्वश्चासौ विषयश्च स्वविषयः तस्मिन्नियमात्-नियतत्वात् , यतः प्रत्यक्षादीनि स्वविषयमेव परिच्छिन्दन्ति, न च ता:-प्रत्यक्षादिका ज्ञानशक्तयः विरुद्धाःअयथात्मिकाः प्रतिपत्तय इति च युज्यतेऽभिधातुं, तद्वन्नयैरपि स्वविषयनियमानास्ति विप्रतिपत्तिप्रसङ्ग इति ॥
. सम्प्रति प्रक्रान्तनयलक्षणमुदाहरणं चादर्शितं संक्षिप्तरुचीनामनुग्रहार्थमार्याभिर्वक्तुकाम एवं प्रक्रमतेभा०-आह च
नैगमशब्दार्थाना-मेकानेकार्थनयगमापेक्षः। नयकारिकाः
देशसमग्रग्राही, व्यवहारी नैगमो ज्ञेयः॥१॥-आर्या टी०-आह चेत्यादि। आह चेत्यात्मानमेव पर्यायान्तरवर्तिनं निर्दिशति, निगमोजनपदस्तत्र भवाः नैगमाः-शब्दास्तेषाम् अर्थाः-अभिधेयाः अतस्तेषां नैगमशब्दार्थानामेको-विशेषः अनेकं-सामान्यम् अनेकव्यक्त्याश्रितत्वात् तावेव चार्थों एकानेकार्थों तयोरेकानेकार्थयोर्नयः-प्रकटनं प्रकाशनं एकानेकार्थनयः स एव गमः-प्रकारः एकानेकार्थनयगमस्तमपेक्षते-अभ्युपैति यः स एकानेकार्थनयगमापेक्षः, पूर्ववाचोयुक्त्या पुनरमुमेवार्थमनुस्मरयन्नाह-देशेत्यादि । देशो--विशेषः समग्रं-सामान्य तयोर्णाही-आ. श्रयिता, व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यां अस्तीति व्यवहारी, नैगमो ज्ञातव्यः ॥१॥
सङ्ग्रहस्य स्मरणकारिकामाहभा०-यत् सङ्गहीतवचनं, सामान्ये देशतोऽथ च विशेषे।
तत् सङ्ग्रहनयनियतं, ज्ञानं विद्यान्नयविधिज्ञः ॥२॥ टी०-यत् सङ्ग्रहीतेत्यादि । यदिति ज्ञानं सम्बध्यते, कीदृशं तदिति ? तत् सङ्ग्रहीतवचनं सगृहीतं-सामान्यं वचनम् उच्यते तदिति वचनं, ज्ञेयमित्यर्थः । सङ्ग्रहीतं वचनं यस्मिन् ज्ञाने, सामान्य ज्ञेयं यस्य ज्ञानस्येत्यर्थः, तज्ज्ञानं सगृहीतवचनं, तत् पुनरेवं ज्ञानं प्रवर्तते-सामान्ये-सत्तायां देश इति सामान्यविशेषे गोत्वादिके, अथ चेति अथवा विशेषे खण्डमुण्डादिके । एतेषु सर्वेषु सम्पिण्डनारूपेण प्रवर्तते यतः सामान्य विशेषो वा,न सत्तामन्तरेण कश्चिदस्तीत्येवं सम्पिण्डय यत् सत्तायांप्रक्षिपत् प्रवर्तते ज्ञानं तत् स
महनयनियतं तज्ज्ञानं सङ्ग्रहस्य नयस्य निश्चितमेवंस्वरूपं विद्यात्-जानीयात् नयविधिज्ञ इति नयभेदज्ञः ॥२॥
व्यवहाराभिप्रायानुस्मरणायाहभा०-समुदायव्यक्त्याकृति-सत्तासंज्ञादिनिश्चयापेक्षम् ।
लोकोपचारनियतं, व्यवहारं विस्तृतं विद्यात् ॥ ३ ॥ १ 'न युज्यते' इति क-ख-पाठः । २ 'देशतो विशेषाच्च' इति ख-पार्श्वलिखितपाठः। ३ ' तदिति चेत् । इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org