________________
१२६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ __टी-किश्चान्यदित्यनेनोपपत्त्यन्तरमप्यस्ति विप्रतिपत्तिदोषस्य परिहारार्थमिति दर्शयति-यथा मतिश्रुतावधिमनःपर्यायकेवलज्ञानः पञ्चभिर्धर्माधर्माकाशजीवपुद्गलानामस्तिकायानामिति, अस्तीति-त्रैकालिकसत्तासंसूचको निपातः, अभूवन भवन्ति भविष्यन्ति च यतोऽतः मूच्यन्तेऽस्तीत्यनेन, काय इत्यनेन प्रदेशावयवबहुत्वमाचष्टे, वक्ष्यति पञ्चमे असङ्ख्येयाः प्रदेशाः (अ०५,मू०७) इत्यादि, अतोऽस्ति च ते कायाश्चेति, तेषामन्यतमः अर्थ इति धर्मादिः, पृथक् पृथगुपलभ्यत इति, अन्यथा चान्यथा च परिच्छिद्यत इत्यर्थः ॥ ननु चैकस्वभावस्य धर्मादेरस्तिकायस्य मत्यादिज्ञानरयुक्तोऽन्यथात्वेन परिच्छेद इत्येवं चोदिते आह-पर्यायविशुद्धीत्यादि । पर्याया-भेदाः-विज्ञानस्वभावा मत्यादिरूपाः तेषां विशुद्धिः-स्वच्छता स्वावरणापगमजनिता तस्याः पर्यायविशुद्धेर्विशेषो-भेदस्तस्मात् पर्यायविशुद्धिविशेषाद उत्कर्षेण-प्रकर्षेण तैर्मत्यादिभिस्तेषामस्तिकायानां पृथक पृथगुपलब्धिर्भवति, तद्यथा मतिज्ञानी मनुष्यपर्यायं वर्तमानं चक्षुरादिनेन्द्रियेण साक्षात् परिच्छिनत्ति, तमेव च श्रुतज्ञानी आगमानुमानस्वभावेन, तमेवावधिज्ञानी अतीन्द्रियेण ज्ञानेन, तमेव मनःपर्यायज्ञानी तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्गतानि मनोद्रव्याणि दृष्टया अनुमानेनैवतं मनुष्यपर्यायमवच्छिनत्ति, केवलज्ञानी पुनरत्यन्तविशुद्धन केवलेनावबुध्यते । न चैता मत्यादिका विप्रतिपत्तयः-विरुद्धाः प्रतिपत्तयः, स्वसामर्थ्येन विषयपरिच्छेदात् , तद्वन्नयवादा इति किं नाश्रीयते ? । अथवा पर्यायविशुद्धिविशेषादुत्कर्षेणेत्यन्यथा वर्ण्यते, पर्यायाणां-क्रमभुवां मनुष्यादीनां जीवास्तिकायादिसम्बन्धिनां मत्यादिभिर्जानैः पृथक् पृथगुपलब्धिर्भवति, कथं ? प्रकर्षण, कस्मादिति चेत् ? उच्यते-विशुद्धिविशेषात् ज्ञानादीनां मत्यादीनां, यतो मतिज्ञानी मनुष्यादेर्जीवस्य काँश्चिदेव पर्यायान् परिच्छिनत्ति ततो बहुतरांश्च श्रुतज्ञानी जानीते, यतोऽभिहितं-" संखातीतेऽवि भवे" ( आव०नि० ) इत्यादि । श्रुतज्ञानिनोऽपि सकाशाद बहुतरानवधिज्ञानी पर्यवस्यति, विशुद्धिप्रकर्षात , ततो मनःपर्यायज्ञानी, ततश्च सर्वात्मना केवलीति । न चैवमनेकधा परिच्छेदप्रवृत्ता मत्यादिका ज्ञानशक्तयो विप्रतिपत्तिव्यपदेशमश्नुवते,तद्वन्नयवादा इति किं नाभ्युपेयते?॥ उपपत्त्यन्तरमाह
भा०-यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेरतना कोऽर्थः प्रमीयते, स्वविषयनियमात्, न च ता विप्रतिपत्तयो न्तरता न
भवन्ति, तद्वन्नयवादा इति ॥ टी०-यथा वेत्यादिना । यथा वा गिरिगुहावस्थितोऽमिरेकोऽनेकेन प्रत्यक्षादिना परिच्छिद्यते प्रमाणेन, सन्निकृष्टवर्तिना प्रत्यक्षेण, विप्रकृष्टवर्तिना लिङ्गज्ञानेन, अपरेणोपमया कनकपुञ्जपिञ्जरप्रकाशोऽग्निरिति, अन्यः आप्तोपदेशादध्यवस्यत्यत्र वनगहनेऽनिरिति, अत एवं प्रत्यक्षादिभिः प्रमाणैरेकोऽर्थः प्रमीयते, कुतः १ स्वविषयनियमात्, स्वः-आ
१ सङ्ख्यातीतानपि भवान् ।
प्रमाप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org