________________
१३०
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
तस्य वा देशप्रदेशाविति । एवं तावन्नैगमादयश्चतुर्षु जीव इत्यादिषु विकल्पेषु प्रवृत्ताः, एवम्भूतस्तु नैवं प्रतिपद्यते, कथं तहींति चेदुज्यते—
भा०
० - एवम्भूतनयेन तु जीव इत्याकारिते भवस्थो जीवः प्रतीयते । कस्मात् ।। एष हि नयो जीवं प्रत्यौद्धिक भावग्राहक एव । जीवतीति जीवः, प्राणिति प्राणान् धारयतीत्यर्थः । तच्च जीवनं सिद्धे न विद्यते, तस्माद् भवस्थ एक जीव इंति । नोजीव इत्यजीवद्रव्यं सिद्धो वा । अजीव इत्यजीवद्रव्यमेव । नोटी इति भवस्थ एव जीव इति ।
टी० - एवम्भूतेत्यादि । एवम्भूतनयेन जीव इत्युच्चरिते भवस्थ जीवः प्रतीय भवः - संसारश्चतुर्विधस्तस्मिन् स्थितो भवस्थः - संसारिजीवः प्रतीयते । कस्मात् सिद्धिस् त्यजतीति चेत् ? उच्यते - एष हीत्यादि, एवं यस्मादेवम्भूतनयो जीवं प्रत्येवं प्रवर्तते य एव औदयिकेन गतिकपायादिस्वभावेनावस्थाविशेषेण युक्तस्तस्यैव ग्राहकः - तमेवादयिकभावयुक्तं जीवमिच्छति, यतः शब्दार्थ एवमवस्थितो 'जीव प्राणधारणे' जीवतीति जीवः । किमुक्तं भवति ? प्राणितीति, ' अन प्राणने ' इति वाऽस्यार्थे, जीव इत्यस्य च धातोः सकर्तृकत्वं कथयति प्राणान् धारयतीति । प्राणाः - इन्द्रियाणि मनोवाक्कायास्त्रयः, प्राणापानौ एकः आयुश्च तान् धारयति न मुञ्चति यावत् तावदसौ जीव इति मन्तव्यः, एतत् स्याद् इन्द्रियादयः प्राणाः सिद्धेऽपि सन्ति, तन्न, सिद्धे हि सर्वकर्मापगमान्न सन्तीन्द्रियादयः प्राणा इत्येतदाह - तच्च जीवनमित्यादि । तदिति शब्दार्थतया जीव इत्यस्य जीवनं प्राणधारणं सिद्धे - मोक्षप्राप्ते नास्ति, तस्माद् भवस्थ एव संसार्येव जीवः, न सिद्ध इति । तथा नोजीव इत्युच्चरिते नोशब्दः सर्वप्रतिषेधक एव, देशस्याभावात् देश्येव देशो न वस्त्वन्तरं, न च देशिनो देशो भिन्न इत्यभिधातुं युक्तम्, यदि हि भिन्नः स्यात् नासौ तस्य, भिन्नत्वाद् वस्त्वन्तरवत्, अथाभिन्नः देश्येव तर्ह्यस्ति न कश्चिद् देशो नामेत्यतः सर्वप्रतिपेधको नोशब्दोऽतः नोजीव इत्युक्ते जीवादन्यद् वस्तु सम्पूर्ण परमाणुप्रभृति प्रतीयते, तदाह - नोजीव इति अजीवद्रव्यमेव सिद्धो वा, प्राणधारणस्याभावात् सोऽपि निर्जीव एवेति, अतः सिद्धो वा गम्यते । अजीव इति तच्चरिते अजीवद्रव्यमेव परमाण्वादिकं, सर्वप्रतिषेधकत्वादकारस्य प्रतीयते । नोअजीव इत्युक्ते ' प्रतिपेधौ द्वौ प्रकृतं गमयतः' इति भवस्थः - संसार्येव जीवो गम्यते || अथ कस्मान्नोजीव इत्यस्मिन् विकल्पे नोअजीव इत्यस्मिन् वा देशप्रदेशौ न गम्येते ? । उच्यते - देशप्रदेशयोरनभ्युपगमादनेन नयेनेति, एतदाह
भा० – समग्रार्थग्राहित्वाच्चास्य नयस्य नानेन देशप्रदेशौ गृह्येते । एवं जीवी जीवा इति द्वित्वबहुत्वा कारितेष्वपि, सर्वसङ्ग्रहणे तु जीवो, नोजीवः ।
१ एष स्यादेवंभूत' इति क ख पाठः । २ ' प्रत्येवं ' इति ख- पाठः, प्रतीत्येवं इति पाठः ।
"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org