________________
११६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ सूत्रः, एष च भावविषयप्रकारातीतानागतविषयवचनपरिच्छेदे प्रवृत्तः सर्वविकल्पातीतातिसम्प्रमुग्धसङ्ग्रहग्रहाविशिष्टत्वाद् व्यवहारस्यायथार्थतां मन्यमानः अचरणपुरुषगरुडवेगव्यपदेशवद् वतमानक्षणसमवस्थितिपरमार्थवस्तु व्यवस्थापयति, अतीतानागताभ्युपगमस्तु खरविषाणास्तित्वाभ्युपगमान भिद्यते, दग्धमृतापध्वस्तविषयश्चानाश्वासो न कस्यचिदपि स्यात् , अघटादिलक्षणमृदाद्यनर्थान्तरत्वाच्च घटादिकालेऽपि घटादितैव स्यात्, न च तदेव तदेकं मृद् द्रव्यमन्यथा वर्तते, किं तर्हि १ अन्यदेव, अन्य प्रत्ययवशाद वाऽन्यथोत्पद्यत इति न पिण्डादिक्रियाकाले कुम्भकारव्यपदेशः, यदि चान्यदपि कुर्वन्नन्यस्य कर्तेत्युच्यते पटादिकरणप्रवृत्तोऽपि प्रत्याख्यातविज्ञानान्तरसम्बन्धः स्यादेव कुम्भकारः, ततश्चाशेषलोकव्यवहारोपरोध इत्यतः पूर्वापरभागवियुतः सर्ववस्तुगतो वर्तमानक्षण एव सत्यः, नातीतमनागतं चास्तीति, एतदर्शननिबन्धनं चैतदुपदिश्यते, "पिव च खाद च" इत्यादि "एतावानेष पुरुषः" इत्यादि वेति । शब्दनयः-शब्द एव, सोऽर्थकृतवस्तुविशेषप्रत्याख्यानेन शब्दकृतमेवार्थविशेषं मन्यते, यद्यर्थाधीनो विशेषः स्यात् न शब्दकृतः, तेन घटवर्तमानकाले घट एव निर्विशेषः स्यात् कर्मकरणसम्प्रदानापादानस्वाम्यादिविशेषान् नाप्नुयात् , ततश्च घटं पश्यत्येवमादिकारककृतो व्यवहारः छियेत, समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति नेतरत्, नहि पुरुषः स्त्री, यदीप्येत वचनार्थहानिः स्यात् , भेदार्थ हि वचनम् , अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति त्वं पचसि अहं पचामि पचावः पचामः इति पुरुषतः, एवमादि सर्वे परस्परविशेषव्याघातादवस्तु, परस्परव्याघाताच्चैवमाद्यवस्तु प्रतिपत्तव्यम्, यथा शिशिरो ज्वलनः, तथा विरुद्ध विशेषत्वात् तटस्तटी तटमित्यवस्तु, रक्तनीलमिति यथा, यद् वस्तु तदविरुद्धविशेषमभ्युपयन्ति सन्तः यथा घटः कुटः कुम्भ इति । तथा चोच्यते-यत्र ह्यर्थो वाचं न व्यभिचरत्यभिधानं तत् , एवमयं समानलिङ्गसङ्ख्यापुरुषवचनः शब्दः, एतद्दर्शनानुगृहीतं चोच्यते-" अर्थप्रवृत्तितत्त्वानां शब्द एव निवन्धनम्" इति, एवमेते मूलनयाः पञ्च नैगमादयः । अत्र चाद्याश्चत्वारोऽर्थप्रधानत्वादर्थतन्त्रत्वात् , शब्दनयः पुनरर्थोपसर्जनः शब्दप्रधानः शब्दतन्त्र इति ॥ ३४ ॥ अधुनैषां यथासम्भवं भेदप्रतिपिपादयिषयाऽऽह
सूत्रम्-आद्यशब्दौ दित्रिभेदौ ॥१-३५॥ टी०-तत्र आद्यशब्दावित्यादि । तत्र नैगमादिषु पञ्चसु यौ आद्यशब्दो तो
, यथासङ्ख्यं द्वित्रिभेदौ भवतः, आद्यौ च तो शन्दौ चेति समानाआद्यशब्दनयभेदाः
धिकरणसमासाशङ्कायामाह
३ अस्योल्लेखो हरिकारिकायां
१'अन्यत्प्रत्यय ' इति ख-ग-पाठः। २ 'ख्यातेन ' इति ख-पाठः। शम्दाद्वैते । ४ 'तत्र आद्यशब्दो' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org